________________ खण्ड-२ नवपूर्विणः श्रीआर्यरक्षितादयः, पूर्वीशब्दः स्थानत्रयेऽपि सम्बध्यते / तथा. 'दुवालस'त्ति अग्रेतनाङ्गशब्दसम्बन्धात् द्वादशाङ्गिनः / ननु चतुर्दशपूर्विणां द्वादशाङ्गिनां च को भेदः ? उच्यते द्वादशतममङ्गं दृष्टिवादः, स च परिकर्म 1 सूत्र 2 पूर्वगत 3 अनुयोग 4 चूलिका 5 भेदात्पञ्चभेदः, पूर्वाणि च चतुर्दशापि पूर्वगतभेदमध्ये सन्ति द्वादशतमाङ्गस्यैकदेशभूतान्येवेति पूर्वधरद्वादशाङ्गधरभेदसिद्धिः। तथा एकादशाङ्गिनश्च ये च, चकारो भिन्नक्रमसूचकः / सम्प्रति विशेषानुष्ठानिन आह-'जिणकप्पं 'त्ति एकाकित्वेन निष्प्रतिकर्मशरीरतया च जिनस्येव कल्प आचारो येषां ते जिनकल्पिका दुष्करक्रियाकारिणः / अहालंदित्ति उदकाः करो यावता कालेन शुष्यति तत् जघन्यं लन्दं तत आरभ्योत्कृष्टं पञ्चरात्रिन्दिवलक्षणं लन्दम्, तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, पञ्चको गणोऽमुं कल्पं प्रतिपद्यते, मासकल्पक्षेत्रं च गृहपङ्क्तिरूपाभिः षड्भिर्वीथिभिर्जिनकल्पिकवत् परिकल्पयन्ति, एकैकस्यां च वीथ्यां पञ्च पञ्च दिनानि पर्यटन्ति, जिनकल्पिकास्त्वेकमेव दिनम् / सप्तम एव दिने पुनस्तस्यां वीथ्यां समागच्छन्ति इत्येतेषां भेदः / तथा परिहारविशुद्धिकाश्च ते साधवश्च परिहारविशुद्धसाधवः / .. - नव साधवोऽमुं कल्पं प्रतिपद्यन्ते, तेषां मध्ये षण्मासान् यावच्चत्वारस्तपः कुर्वन्ति, चत्वारोऽनुपारिहारिकत्वमेकश्च कल्पस्थितत्वं गुरुत्वमित्यर्थः, एते पञ्चापि निर्लेपाचाम्लभोजिनः, पारिहारिकाणां च ग्रीष्मे चतुर्थषष्ठाष्टमरूपं शिशिरे षष्ठाष्टदशमरूपं वर्षास्वष्टमदशमद्वादशमरूपं जघन्यमध्यमोत्कृष्टभेदं तपः, पारणके च तेषां नित्यमाचाम्लम्, द्वितीयषण्मासाननुपारिहारिकाः पारिहारिकत्वं पारिहारिकाश्चानुपारिहारिकत्वं प्रतिपद्यन्ते, तृतीयषण्मासान् कल्पस्थितः पूर्वोक्तं पारिहारिकतपः, अपरेऽष्टापि निर्लेपाचाम्लादितपः कुर्वन्ति, एवमष्टादशभिर्मासैरयं कल्पः पूर्णो भवति, तत्समाप्तौ च तमेव कल्पं जिनकल्पं वा प्रतिपद्यन्ते गच्छं वा समायान्ति / चः सर्वेषां समुच्चये / / 33 / / गुण० पूर्वशब्दस्य तृतीयपदस्थस्यापि पृथक्योजनात् चतुर्दशसङ्ख्यानि पूर्वाणि विद्यन्ते येषां ते चतुर्दशपूर्विणः श्रीभद्रबाहुस्वामिन इव / तान्येवाद्यानि दश येषां ते दशपूर्विणः श्यामार्यसूरय इव / नवपूर्विणः श्रीआर्यरक्षितगुरव इव / अङ्गशब्दस्य प्रत्येकमभिसम्बन्धात् द्वादशाङ्गिनः, इह चतुर्दशपूर्विणो द्वादशाङ्गिनश्चैकार्था इति न वाच्यम्, यतो द्वादशतमाङ्गस्य दृष्टिवादलक्षणस्य पञ्चप्रस्थानात्मकत्वात्, एकादशाङ्गिनश्च ये,