________________ खण्ड-२ मूलुक्खयपडिवक्खा अमूढलक्खा सजोगिपञ्चक्खा / साहावियत्तसुक्खा सिद्धा सरणं परममुक्खा / / 26 / / सोम० 'मूलुक्खयत्ति, मूलादुत्खाता उन्मूलिताः प्रतिपक्षाः कर्मरूपा यैस्ते तथा, समूलनिर्मूलितकर्माण इत्यर्थः / 'मूलक्खए'त्ति पाठान्तरेऽयमों मूलस्य संसारहेतुकर्मबन्धमूलस्य मिथ्यात्वाविरतिकषाययोगरूपस्य शत्रुसङ्घातस्य क्षये कर्तव्ये प्रतिपक्षा इव वैरिण इव तज्जयं कृतवन्त इत्यर्थः। तथा लक्ष्ये द्रष्टव्यपदार्थ न मूढा अमूढलक्षाः सदोपयुक्तत्वात्तेषाम् / तथा सयोगिनां सयोगिकेवलिनामेव प्रत्यक्षा दृश्याः, शेषज्ञानिनामविषयत्वात् सिद्धानाम् / तथा स्वाभाविकमकृत्रिममात्तं गृहीतमाप्तं प्राप्तं वा सुखं यैस्ते तथा / पुनः किंविशिष्टाः? परमः प्रकृष्टोऽत्यन्तं विगमात्कर्मभिः सह मोक्षो वियोगः पृथग्भावो येषां ते. तथा, ते सिद्धाः शरणं भवन्तु / / 26 / / गुण मूलस्य संसारहेतुकर्मबन्धमूलस्य मिथ्यात्वाविरतिकषाययोगरूपशत्रुसङ्घातरूपस्य क्षये कर्तव्ये प्रतिपक्षा इव वैरिण इव तज्जयं कृतवन्त इत्यर्थः, मूलोत्खातकर्मप्रतिपक्षा वा / तथा लक्षे द्रष्टव्यपदार्थे न मूढा अमूढलक्षाः सदोपयुक्तत्वात्तेषाम् / तथा शेषज्ञानिनामविषयत्वात्सयोगिनामेव सयोगिकेवलिनां प्रत्यक्षाः दृश्याः सदापि सुखसम्पूर्णत्वेन तृप्तत्वात् / स्वाभाविकमात्तं गृहीतं सुखं यैस्ते तथा परमः प्रकृष्टोऽत्यन्तं विगमात्कर्मभिः सह मोक्षो वियोगो विकटीभावो येषां ते तथा। यदिवा परममोक्षयोगात्परममोक्षाः सिद्धाः शरणं भवन्त्वित्यर्थः / / 26 / / पडिपिल्लियपडणीया समग्गझाणग्गिदडभवबीया / जोईसरसरणीया सिद्धा सरणं समरणीया / / 27 / / सोम० 'पडिपिल्लिअत्ति, प्रतिप्रेरिताः क्षिप्ता अनादृता इत्यर्थः, प्रत्यनीकाः शत्रवो यैः समशत्रुमित्रत्वात् / यद्वा प्रतिप्रेरिता निराकृताः प्रत्यनीका रागाद्यान्तरशत्रवो यैस्ते तथा / तथा समग्रं सम्पूर्णं ययानं परमलयः शुक्लध्यानमित्यर्थः, तदेवाग्निर्वह्निस्तेन दग्धं भस्मसात्कृतं भवस्य संसारस्य बीजं ज्ञानावरणीयादिकर्म यैस्ते तथा, योगीश्वरा गणधराश्छद्मस्थतीर्थकरा वा तैः शरणीया आश्रयणीया नमस्करणध्यानादिना / तथा स्मरणीया ध्येया मोक्षसुखाभिलाषुकाणां भव्यानामिति शेषः, एवंविधाः सिद्धाः शरणं भवन्तु / / 27 / /