________________ अवचूरिवृत्तिसहितं चतुःशरणम् -tu गुण० कर्मोपाधिमुक्तत्वात्प्रतिप्रेरिताः क्षिप्ता अनादृताः प्रत्यनीकाः शत्रवो यैः, समशत्रुमित्रत्वात् / अथवा प्रतिप्रेरिता निराकृताः प्रत्यनीका अभ्यन्तरशत्रवो रागाद्या यैस्ते / तथा समग्रं सम्पूर्णं यद् ध्यानं परमलयस्तदेवानिस्तेन दग्धं भस्मसात्कृतं भवबीजं ज्ञानावरणीयादि यैस्ते / तथा योगीश्वरैर्गणधरैश्छद्मस्थतीर्थंकरैर्वा तत्सुखमभिलाषुभिः स्मरणीया ध्येयाः शरणीया वा अनुगन्तव्याः शरणत्वेन ते / एवं गुणगरिष्ठाः सिद्धाः शरणत्वेन त्रिसन्ध्यमपि स्मरणीया इत्यर्थः / / 27 / / पावियपरमाणंदा गुणनीसंदा विदिण्णभवकंदा / लहुईकयरविचंदा सिद्धा सरणं खवियदंदा / / 28 / / सोम० 'पावित्ति, प्रापित आत्मजीवं प्रति ढौकितः प्राकृतत्वाद्वा प्राप्तः परमानन्दो यैः सदा मुदितत्वात्ते तथा / तथा गुणानां ज्ञानदर्शनादीनां परिपाकप्राप्तत्वान्निःस्यन्दः सारो येषु ते तथा, सर्वसारज्ञानादिगुणा इत्यर्थः। विदीर्णो विदारितः स्फाटितो भवस्य संसारस्थ मोहनीयादिकर्मरूपः कन्दो यैस्ते / तथा लोकालोकप्रकाशककेवलोद्योतेन लघुकीकृतो अल्पप्रभावीकृतौ रविचन्द्रो यैः, तदुद्योतस्य परिमितयोजनप्रकाशकत्वात्ते / तथा क्षपितं क्षयं नीतं द्वन्द्वं संग्रामादिरूपं यैस्ते तथा, सर्वथा निष्कषायत्वात् / ते एवंविधाः सिद्धाः शरणं भवन्तु / / 28 / / गुण० सदामुदितत्वात् प्रापित आत्मजीवं प्रति ढौकितः परमानन्दो परमोल्लासविशेषो ... ' यैस्ते / तथा गुणानां ज्ञानदर्शनचारित्ररूपाणां परिपाकप्राप्तत्वानिष्यन्दः सारो येषां ते / तथा कर्मोच्छेदनाद्विदीर्णो विदारितः स्फाटितो भवस्य संसारस्य कन्दो यैस्ते / तथा केवलोद्योतेन लघुकीकृतो अल्पप्रभावीकृतौ रविचन्द्रो यैर्यतस्तदुद्योतस्य योजनप्रमितत्वात् ते / तथा निष्कषायत्वात् क्षपितं क्षयं नीतं द्वन्द्व संग्रामो यैस्ते तथा / एते एवंविधाः सिद्धाः शरणं भवन्तु / / 28 / / / उवलद्धपरमबंभा दुल्लहलंभा विमुक्कसंरंभा / भुवणघरधरणखंभा सिद्धा सरणं निरारंभा / / 29 / / सोम० 'उवलद्धत्ति, उपलब्धं प्राप्तं परमब्रह्म प्रकृष्टं ज्ञानं यैस्ते उपलब्धपरमब्रह्माणः, ... समवाप्तकेवलज्ञाना इत्यर्थः। तथा दुर्लभो लम्भो लाभो मुक्तिपदप्राप्तिलक्षणो येषां