________________ अवचूरिवृत्तिसहितं चतुःशरणम् इत्यर्थः, आर्षत्वात् सिद्धशब्दस्याग्रे निपातः, सर्वार्थलब्धिभिः सिद्धा निष्ठिता इत्येवं वा समासः / ते सिद्धा मम शरणं भवन्तु / / 24 / / गुण० कर्माष्टकक्षयेण सिद्धाः प्रसिद्धास्ते च तीर्थसिद्धादिभेदेन पञ्चदशधा / पुनः कथम्भूताः ? स्वाभाविके निरावरणेऽनवछिन्नप्रवाहे ये ज्ञानदर्शने ताभ्यां समृद्धाः स्फीतिमन्तः / अर्थ्यन्तेऽभिलष्यन्ते इत्यर्थस्तेषां लब्धयः प्राप्तयः, सर्वाश्च ता अर्थलब्धयश्च कृतकृत्यत्वात् सर्वार्थलब्धयो दानाद्याः सिद्धा निष्पन्ना येषां ते सिद्धास्तथा ते सिद्धा. मम शरणं भवन्त्वित्यर्थः / / 24 / / तियलोयमत्थयत्था परमपयत्था अचिंतसामत्था / मङ्गलसिंद्धपयत्था सिद्धा सरणं सुहपसत्था / / 25 / / सोम० 'तिअलोय'त्ति, त्रैलोक्यस्य चतुर्दशरज्ज्वात्मकस्य यन्मस्तकं सर्वोपरिवर्तिस्थानं पञ्चचत्वारिंशल्लक्षयोजनविस्तीर्णेषत्प्राग्भाराख्यसिद्धशिलाया उपरितनयोजनसत्कोपरितनचतुर्विंशतितमभागरूप आकाशदेशस्तत्र तिष्ठन्तीति त्रैलोक्यमस्तकस्थाः, तथा परमपदं मुक्तिपदं सर्वकर्मरहितत्वरूपं तद्धेतुत्वाञ्चारित्रादिक्रियाकलापस्य तत्र तिष्ठन्तीति ते तथा, तथाऽचिन्त्यमनन्तत्वात् सामर्थ्य जीवशक्तिविशेषो बलं येषां ते तथा / तथा मङ्गलरूपाः सिद्धाः सम्पन्नाः पदार्था येषां ते तथा, यद्वा सांसारिकदुःखरहितं मङ्गलभूतं यत् सिद्धपदं तत्र तिष्ठन्तीति ते तथा, ते सिद्धाः शरणं भवन्तु, पुनः .. कथम्भूताः ? सुखेन जन्मजरामरणक्षुत्तृषाद्याबाधारहितेन मुक्तिप्रभवेन प्रशस्ता अव्याकुला अनन्तसुखा इत्यर्थः / / 25 / / गुण त्रैलोक्यस्य चतुर्दशरज्ज्वात्मकलोकस्य यन्मस्तकं सर्वोपरिवर्तिस्थानं सिद्धिक्षेत्रं तस्याप्युपरितनदेशे तिष्ठन्तीति परमपदं मुक्तिपदं तद्धेतुत्वाञ्चारित्रादिक्रियाकलापस्तत्र तिष्ठन्तीति ते / तथा अनन्तचतुष्टयोपेतत्वात् अचिन्त्यसामर्थ्य जीवशक्तिविशेषो येषां ते / तथा दुष्टाष्ट प्रबलकर्मरिपुविजयेन प्रवरशिवपुरप्रवेशतो मङ्गलरूपाः सिद्धाः सम्पन्नाः पदार्था येषां ते तथा, अथवा सांसारिकदुःखविरहितं मङ्गलभूतं यत्तत्सिद्धिपदं तत्र तिष्ठन्तीति ते तथा ते सिद्धाः शरणं भवन्तु, निस्तीर्णसर्वदुःखजातिजरामरणत्वादाबाधारहितत्वाञ्च / सुखेन मुक्तिप्रभवेन प्रशस्ता अव्याकुलाः प्रशस्तसुखा इत्यर्थः / / 25 / /