________________ खण्ड-२ शुद्धिस्तया लब्धः परिशुद्धो निर्मल: सिद्धान् प्रति बहुमानो भक्तिर्येन स तथा, 'सुविशुद्ध 'त्ति पाढ़े सुष्ठु अतिशयेन विशुद्धो निर्मल इत्यर्थः। पुनः किम्भूतः ? प्रणतं भक्तिवशान्नम्रीभूतं यच्छिरस्तत्र रचितः करकमलाभ्यां शेखरो येन स तथा, एवम्भूतः सन् सहर्ष भणति / / 23 / / गुण० अर्हच्छरणेन या मलस्य कर्मरजसः शुद्धिस्तया लब्धः परिशुद्धो निर्मल: सिद्धान् प्रति बहुमानो भक्तिर्येन स तथा, किम्भूतः ? प्रणतं भक्तिवशान्नम्रीभूतं यच्छिरस्तत्र रचितः कृतः करकुड्मल एव शेखरो येन स तथा सहर्ष सानन्दं यथा भवत्येवं भणति / / 23 / / सोम० यच्चायं भणति तद्गाथाषट्केनाहगुण० यञ्चायं भणति तद्गाथाषट्केनाह कम्मट्ठक्खयसिद्धा साहावियनाण-दंसणसमिद्धा / सव्वट्ठलद्धिसिद्धा ते सिद्धा हुंतु मे सरणं / / 24 / / सोम० 'कम्मट्ठत्ति, कर्माष्टकक्षयेण सिद्धाः प्रसिद्धास्ते च तीर्थसिद्धादिभेदेन पञ्चदशधा, [तानाह १-तीर्थसिद्धाः प्रसन्नचन्द्रसनत्कुमारादयः २-अतीर्थसिद्धा मरुदेव्यादिकाः ३-गृहलिङ्गसिद्धाः पुण्याढ्यादिकाः ४-अन्यलिङ्गसिद्धा वल्कलचीर्यादिकाः ५-स्वलिङ्गसिद्धा जम्बूस्वाम्यादिकाः ६-स्त्रीलिङ्गसिद्धा' राजीमत्यादिकाः ७-नरसिद्धा भरतादिकाः ८-कृत्रिमनपुंसकसिद्धाः गुणसेनादिकाः ९-प्रत्येकबुद्धसिद्धा नमिराजादिकाः १०-स्वयम्बुद्धसिद्धाः समुद्रपालादिकाः ११-बुद्धबोधितसिद्धाः त्रिकाधिकपञ्चदशशततापसादिकाः / १२-एकसिद्धाः गजसुकुमालादिकाः १३-अनेकसिद्धा भरतपुत्रादिकाः १४-अजिनसिद्धाः पुण्डरीकगौतमादिकाः १५-जिनसिद्धा आदिनाथादिकाः / ] पुनः कथम्भूताः ? स्वाभाविके निरावरणे येऽनवच्छिन्ने ज्ञानदर्शने ताभ्यां समृद्धाः स्फीतिमन्तः। तथाऽर्थ्यन्तेऽभिलष्यन्ते इत्यर्था सर्वे च तेऽर्थाश्च तेषां लब्धयः प्राप्तयः सिद्धाः निष्पन्नाः सर्वार्थलब्धयो येषां ते तथा, सिद्धसर्वकार्याः प्राप्तसर्वसुखज्ञानादिभावाः कृतकृत्या * कौंसगतः पाठः पूर्वमुद्रितौ प्रतौ दृश्यते, न तु हस्तलिखितेष्वादशेषु / सं.