________________ अवचूरिवृत्तिसहितं चतुःशरणम् शाश्वतं वा यथाभवत्येवं न आदिर्न चान्तो येषां ते अनाद्यनन्तास्तान् अर्हतोऽहं - शरणं प्रतिपन्नस्तानाश्रित इत्यर्थः / एतेन कालत्रयभाविनोऽपि जिना गृहीताः / / 21 / / सोम० अथ कृतार्हच्छरणो विशेषेण तेषां नमस्कारमाहगुण० अथ कृतार्हच्छरणो विशेषेण तेषां नमस्कारमाह उज्झियजर-मरणाणं समत्तदुक्खत्तसत्तसरणाणं / तिहुयणजणसुहयाणं अरहंताणं नमो ताणं / / 22 / / सोम० 'उज्झित्ति, उज्झितानि त्यक्तानि जरामरणानि यैस्तत्कारणकर्मरहितत्वात्ते उज्झि तजरमरणास्तेभ्यः / समस्तानि सम्पूर्णानि यानि दुःखानि तैरार्ता ऋता वा पीडिता ये सत्वाः प्राणिनस्तेषां शरण्याः शरणे साधवस्तेभ्यः, यद्वा समाप्तं निष्ठां गतं दुःखं येषां ते समाप्तदुःखाः, तथा आर्ता जन्मजरामरणादिदुःखैः पीडिता ये सत्त्वास्तेषां शरण्याः, समाप्तदुःखाश्च ते आर्तसत्त्वशरण्याश्चेति विशेषणकर्मधारयस्तेभ्यः / तथा त्रिभुवनजनानां सुखं ददाति निजावतारेणेति त्रिभुवनजनसुखदास्तेभ्यः। सर्वत्र चतुर्थ्यर्थे षष्ठी “छट्ठी विभत्तीइ भण्णइ चउत्थी" इति प्राकृतसूत्रबलात्, तेभ्यः पूर्वोक्तगुणेभ्योऽर्हद्भ्यो नमो नमस्कारोऽस्तु / / 22 / / गुण० जरामरणकारणकर्मरहितत्वादुज्झितानि त्यक्तानि जरामरणानि यैस्ते तेभ्यः समाप्तानि सम्पूर्णानि समस्तानि वा यानि दुःखानि तैरार्ता रुजा वा पीडितास्ते च ते सत्त्वाश्च समाप्तदुःखार्त्तसत्त्वाः समस्तदुःखार्तसत्वा वा तेषां शरण्यास्तेभ्यत्रिभुवनजनानां सुखं ददातीति ते तथा तेभ्यः, सर्वत्र चतुर्थ्यर्थे षष्ठी, तेन तेभ्योऽर्हद्भ्यो नमो नमस्कारोऽस्तु / / 22 / / सोम० अथ द्वितीयं शरणं यथा प्रतिपद्यते तथाऽऽहगुण० यथाविधि द्वितीयं शरणं करोति तदाह - अरिहंतसरणमलसुद्धिलद्धपरिसुद्धसिद्धबहुमाणो / पणयसिरिरइयकरकमलसेहरो सहरिसं भणइ / / 23 / / सोम० अरिहंतत्ति अर्हतां शरणमर्हच्छरणं तेन पूर्वोक्तेन या मलस्य कर्मरजसः