________________ 78 खण्ड-२ सोम० 'वयणा' इति वचनमेवामृतं वचनामृतं क्षुत्पिपासापीडादिदोषापहारकत्वात् तेन वचनामृतेन भुवनं लोकं निर्वाप्य तस्य तृप्तिमुत्पाद्य निर्वापयन्तो वा प्रीणयन्त आप्यायन्त इत्यर्थः / तथा गुणेषु उत्तरोत्तरगुणस्थानकेषु सम्यक्त्वदेशविरतिप्रमत्ताप्रमत्तादिकेषु प्रागुक्तं भुवनमेव स्थापयित्वा स्थापयन्तो वा सदुपदेशवशात्तानि प्रापयन्त इत्यर्थः / तथा जीवलोकं भव्यजीवलोकमभव्यास्तु तीर्थकरोपदेशेनापि नावबुध्यन्ते, तमुद्धृत्य उद्धरन्तो वा भवान्धकूपात् स्ववचनरज्जुनाऽऽकर्षयन्त इत्यर्थः / शेषं पूर्ववत् / / 20 / / गुण० वचनमेवामृतं वचनामृतं क्षुत्पिपासापीडादिदोषनिरसनसमर्थत्वात्, उक्तं च "सव्वा०" / तेन वचनामृतेन भुवनं लोकं निर्वाप्य तस्य तृप्तिमुत्पाद्य निर्वापयन्तो वा प्रीणयन्तः / तथा गुणेसु उत्तरोत्तरगुणस्थानकेषु सम्यक्त्वविरताविरतप्रमत्ताप्रमत्तादिकेषु भुवनमेव स्थापयित्वा स्थापयन्तो वा / तथा जीवलोकं भव्यजीवलोकम्, अभव्यास्तु तीर्थकरोपदेशेनाऽपि नावबुध्यन्ते / तमुद्धरन्तो भवान्धकूपादिति गम्यत्वात् / तस्मात् स्ववचनरज्जुना कर्षयन्त इत्यर्थः / शेषं प्राग्वत् / / 20 / / सोम० अथातीतानागतार्हच्छरणद्वारेण तन्निगमयन्नाह- . गुण० अतीतानागतार्हच्छरणमाह अञ्चन्मयगुणवंते नियजसससिहरपसाहियदियंते / निययमणाइअणंते पडिक्नो सरणमरिहंते / / 21 / / सोम० 'अञ्चन्मुत्ति अत्यद्भुता अन्येष्वसम्भविनो ये गुणाः प्रातिहार्यादिलक्षणा अन्ये वा रूपादयस्ते विद्यन्ते येषां ते अत्यद्भुतगुणवन्तस्तान्, तथा निजयश एव शशधरश्चन्द्रस्तेन प्रसाधिता विभूषिता दिगन्ता दिक्पर्यन्ता यैस्तान् / ‘पयासित्ति पाठे प्रकाशिता वा यैस्तान, नियतं शाश्वतं यथा भवत्येवं सदैवेत्यर्थः, न आदिर्न चान्तो येषां तेऽनाद्यनन्तास्तान् शरणं प्रपन्नस्तानाश्रित इत्यर्थः / एतेन कालत्रयभाविनोऽनन्ता अपि जिना गृहीताः / / 21 / / गुण० अत्यद्भुतगुणा बुद्धातिशयवचनातिशयप्रातिहार्यलक्षणास्ते विद्यन्ते येषां ते तथा तान, अत्यद्भुतगुणवतः / निजयश एव शशधरो निजयशःशशधरः तेन प्रसाधिता मण्डिता धवलीकृता दिगन्ता यैस्ते, तान् निजयशःशशधरप्रसाधितदिगन्तान् / नियतं