________________ अवचूरिवृत्तिसहितं चतुःशरणम् गुण सामस्त्येनावस्रियते गम्यते संसारभयोद्विग्नै वैरिति समवसरणमवसृत्यालङ्कृत्य . चतुरिंशतो बुद्धातिशयानिषेव्य उपलक्षणत्वाच्च पञ्चत्रिंशद्वचनातिशयांश्चोपयुज्य धर्मकथां च कथयित्वा ये मुक्तिं यान्ति यास्यन्ति याता इत्यध्याहार्यम् / पूर्व धर्मकथनयोग्या इत्युक्तम्, ननु तां कथयित्वेति न पौनरुक्त्यम् ? उक्तञ्च उपदेशस्तुतिध्यानतपोदानौषधादिषु / गुणस्तवे श्रुताऽध्याये, पौनरुक्त्यं न गण्यते।। अर्हन्तः शेषं प्राग्वत् / / 18 / / एगाए गिराणेगं संदेहं देहिणं समुच्छित्ता। तिहुयणमणुसासित्ता अरिहंता हुंतु मे सरणं / / 19 / / सोम० 'एगाइ गिर 'त्ति एकया गिरा एकेनापि वचनेनानेकप्रकारान् सन्देहान् संशयान्, केषां ? देहिनां सुरासुरनृतिर्यग्रूपाणां समं समकालमेव छित्त्वा संशयत्रुटिं कृत्वेत्यर्थः 'समुच्छित्ते 'ति पाठे समुच्छिद्येति ज्ञेयम् / त्रिभुवनमनुशास्य शिक्षयित्वा अनुशासयन्तौ वा सम्यक्त्वदेशविरतिसर्वविरतिलक्षणशिक्षाप्रदान, मोक्षं यान्तीति योगः / शेषं तथैव / / 19 / / गुण एकया गिरा वाचा एकेनापि वचनेन अनेकेषां देहिनां प्राणिनामनेकप्रकारं सन्देहं संशयं समुच्छिद्य संशयत्रुटिं कृत्वेत्यर्थः, ननु कथमर्हद्गीरेकाऽपि युगपत्प्रतिप्राणिसंशयव्यवच्छेदाय भवति ? एकस्यामपि भगवद्भाषायां सर्वाक्षरसंयोगः कथमप्यस्ति / स च . श्रोतृश्रवणपुद्गलस्पृष्टः सन् व्यक्तीभवति / तथाहि - अर्हद्भाषादलिकानि नानासन्देहवतां श्रोतृणां कर्णकोटरं प्रविष्टानि, ततस्तद् श्रवणपुद्गलसंयोगतः स्वकीयां सर्वाक्षरसन्निपातलक्षणां शक्तिं व्यक्तीकुर्वन्ति, ततस्तदुत्तररूपतया अनेकशः परिणमन्ति / दृश्यते च द्रव्यान्तरसंयोगेन द्रव्यान्यथाभावः यथा हरिद्रायाश्चूर्णसंयोगेनारुणत्वं नीलीसंयोगेन नीलत्वमित्यादि / अत्राऽर्थे श्रीभद्रबाहुगुरवोऽप्याहुः “वासोदगस्स"... अतः एकापि गीः संशयवतां निजनिजभाषात्वेन परिणमन्ती, सर्वेषामपि संशयव्यवच्छेदिका भवतीति सुस्थम् / त्रिभुवनमनुशिष्य शिक्षयित्वा अनुशासयन्तो वा सम्यक्त्वदेशविरतिसर्वविरतिलक्षणशिक्षाप्रदानेन ते, शेषं प्राग्वत् / / 19 / / वयणामएण भुवणं निव्वावित्ता गुणेसु ठावित्ता / जियलोयमुद्धरित्ता अरिहंता हुतु मे सरणं / / 20 / /