________________ खण्ड-२ गुण० परेषामात्मव्यतिरिक्तानां मनांसि परमनांसि तेषु गतं स्थितं चिन्तितमित्यर्थः, तन्मुणन्तो जानन्तः / योगीन्द्राः गौतमादयः, महेन्द्राः शक्रादयस्तेषां ध्यानं स्थिराध्यवसायरूपं तदर्हन्तीति / तथा धर्मकथां कथयितुमर्हन्तस्तस्याः कथनयोग्या ज्ञातार इत्यर्थः छद्मस्थावस्थायां तु जिनानां धर्मकथानहत्वात्, शेषं तथैव / / 16 / / सव्वजियाणमहिंसं अरिहंता सञ्चवयणमरिहंता / बंभव्वयमरिहंता अरिहंता हुंतु मे सरणं / / 17 / / सोम० 'सव्व' त्ति सर्वे सूक्ष्मबादरत्रसस्थावरा ये जीवास्तेषां न हिंसा अहिंसा रक्षा तामर्हन्तः, तथा सतां हितं सत्यं तञ्च तद्वचनं च तदेवार्हन्तोऽसत्यभाषणहेतुरागद्वेषमोहरहितत्वात्तेषाम्, तथा ब्रह्मव्रतमष्टादशभेदम् / “दिव्यौदारिककामानां" इत्यादि श्लोको क्तमासेवितुं प्ररूपयितुं चार्हन्तः, शेषं तथैव / / 17 / / गुण० सर्वे च ते जीवाश्च तेषां न हिंसनमहिंसा रक्षा तामर्हन्तः / तथा सतां हितं सत्यं तच्च / तद्वचनं च असत्यभाषणहेतुरागद्वेषमोहरहितत्वात्तेषां तदेवार्हन्तः, ब्रह्मव्रतमष्टादशविकल्पमासेवितुं प्ररूपयितुं चार्हन्तस्ते, शेषं प्राग्वत् / / 17 / / . . . ओसरणमुवसरित्ता चउतीसं अइसए निसेवित्ता / धम्मकहं च कहित्ता अरिहंता हुँतु मे सरणं / / 18 / / सोम० 'ओस'ति अवस्रियते गम्यते संसारभयोद्विग्नै वैरित्यवसरणं समवसरणमित्यर्थः, तदवसृत्याऽलङ्कृत्य, तथा चतुस्त्रिंशतो जन्मजकर्मक्षयजसुरकृतान् यथाक्रम चतुरेकादशैकोनविंशतिसङ्ख्याप्रसिद्धानतिशयानिषेव्य, उपलक्षणत्वात्पञ्चत्रिंशद्वचनातिशयांश्च, तथा धर्मकथां कथयित्वा ये मुक्तिं यान्ति यास्यन्ति याता इत्यध्याहार्यम् / 'कहंता' इति पाठे धर्मकथां कथयन्तो ये वर्तन्ते ते शरणम्, पूर्व धर्मकथनयोग्या इत्युक्तमत्र तु धर्मकथां कथयन्त एवेति न पौनरुक्त्यमत्र चाध्ययनेऽन्यत्रापि यत्र कुत्रचित् पौनरुक्त्यसम्भवस्तत्र स्तुत्युपदेशरूपत्वेन न दोष इति ज्ञेयम्, यत उक्तं 'सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु / संतगुणकित्तणेसु अ न हुंति पुनरुत्तदोसा उ / / शेषं तथैव / / 18 / /