________________ अवचूरिवृत्तिसहितं चतुःशरणम् 75 इत्येवात्र समाधिप्रापणाय पू० उपाध्यायप्रवरश्रीधर्मसागरगणिसंदृब्ध प्रवचनपरीक्षायाः पू० महोपाध्यायश्रीयशोविजयगणिविरचित्तप्रतिमा-शतकस्य संटङ्क उल्लेखः सूक्ष्म बुद्ध्याऽवलोकनीयो जिज्ञासुभिः। ०सम्पा.] / / 14 / / थुय-वंदणमरिहंता अमरिंद-नरिंदपूयमरिहंता / सासयसुहमरहंता अरिहंता हुंतु मे सरणं / / 15 / / सोम० थुयवंद 'त्ति, स्तवः 'थुइ' पाठे स्तुतिर्वा सद्भूतगुणोत्कीर्तनं वन्दनं कायिकः प्रणामः, तो अर्हन्तः तयोर्योग्या जगतोऽपीति शेषः / अमरेन्द्रनरेन्द्राणां पूजां समवसरणादिकां समृद्धिमहन्तस्तस्या अपि योग्या भवन्तः, तथा शश्वत् भवं शाश्वतं तच्च तत्सुखं च शाश्वतसुखं निर्वाणादनन्तरं तदप्यर्हन्ति तस्याऽपि योग्या भवन्तीत्यर्हन्तः, शेषं पूर्ववत् / / 15 / / गुण स्तुतयः “सव्वन्नुसोमदंसणे"त्यादि वन्दनं कायिकप्रणामस्तमर्हन्तस्तद्योग्या इत्यर्थः / अमरेन्द्रनरेन्द्राणां पूजां समवसरणादिकां समृद्धिमर्हन्तस्तस्या अपि योग्या भवन्तः शश्वद्भवं शाश्वतं तच्च तद् सुखं च शाश्वतसुखं निर्वाणानन्तरं तदप्यर्ह तीत्यर्थः / शेषं पूर्ववत् / / 15 / / परमणगयं मुणित्ता जोइंद-महिंदझाणमरिहंता / .. धम्मकहं अरिहंता अरिहंता हुँतु मे सरणं / / 16 / / सोम० 'परमण'त्ति, परेषामात्मव्यतिरिक्तानां मनांसि परमनांसि तेषु गतं स्थितं चिन्तितमित्यर्थः तन्मुणन्तो जानन्तः 'मुणत् प्रतिज्ञाने' इति धातुः, एतेन अनुत्तरसुराणां मनःसंशयपरिज्ञानतदुच्छेदसमर्था जिना न गौतमादय इत्युक्तम् / तथा योगिनो मुनयस्तेषामिन्द्राः गौतमादयः महान्तश्च ते इन्द्राश्च महेन्द्राः शक्रादयस्तेषां ध्यानं स्थिराध्यवसायरूपं तदर्हन्तीति योगीन्द्रमहेन्द्रध्यानार्हाः। तथा धर्मकथां दानशीलतपोभावनादिकां कथयितुमर्हन्तस्तस्याः कथनयोग्याः सर्वज्ञत्वेन सर्वभाषानुयायियोजनगामिवागतिशयत्वेन च, छद्मस्थावस्थायां तु मौनावलम्बित्वेन धर्मकथनानर्हत्वाजिनानाम्, शेषं प्राग्वत् / / 16 / /