________________ 74 . खण्ड-२ कर्ममलापनयनेनात्मा सुवर्णमिवाग्निनाऽनेनेति तपस्तस्य चरणमासेवनम्, कथम्भूतम् ? दुश्चरं सामान्यसाधुभिः कर्तुमशक्यं वार्षिकषण्मासादिरूपमप्रमत्ततामौनकायोत्सर्गादिक्रियाविशेषितमजलं च तत्तपोऽनुचर्यासेव्य ये केवलश्रियं केवलज्ञानविभूतिमहन्तस्तस्या योग्या भवन्तीत्यर्थः / तेऽर्हन्तः तीर्थकृतो मे शरणं भवन्त्विति सर्वत्र योज्यम्, अथवा प्रथमान्तान्येव पदानि योज्यानि / राज्यश्रियमपकर्षयन्तः त्यजन्तस्तथा तपश्चरणं दुश्वरमनुचरन्तः केवलश्रियं चार्हन्तः प्राप्नुवन्तो ये ते शरणम्, एतेन पूर्वोक्तेन राज्यश्रीत्यागतपश्चरणकरणकेवलश्रीप्रापणरूपावस्थात्रयशरणगमनप्रतिपादनेन यद्यपि शक्रादीनां सर्वास्वप्यवस्थासु जिना नमस्कारार्हास्तथापि ते गृहवासस्थाः साधूनां न नमस्कारार्हा अविरतत्वादिति दर्शितम्, यच्चानागतजिनाः साधुभिर्नमस्क्रियन्ते तेऽपि चारित्रावस्थास्था एवेति भावः [द्रव्यजिनानां नमस्करणीयतायां सर्वविरतानां साधु-साध्वीनां देशविरतानामविरतानां च श्रावक-श्राविकाणां किदृशः कियद् वाऽधिकारोवतत इत्येवात्र समाधिप्रापणाय पू. उपाध्यायप्रवरश्रीधर्मसागरगणिसंदृब्धप्रवचनपरीक्षायाः पू० महोपाध्यायश्रीयशोविजयगणिविरचितप्रतिमाशतकस्य संटङ्क उल्लेखः सूक्ष्मबुद्ध्याऽवलोकनीयो जिज्ञासुभिः * सम्पा.] / / 14 / / गुण राज्यश्रियं (राज्यलक्ष्मी) अपकृष्यावधूय तथा तप्यते ' कर्ममलापनयनेनात्मा सुवर्णमिवाग्निना अनेनेति तपस्तस्य चरणं सेवनं दुश्चरं सामान्यसाधुभिः कर्तुमशक्यम्, तत्तपोऽनुचर्य आसेव्य ये केवलश्रियं केवलज्ञानविभूतिमर्हन्तस्तस्या योग्या भवन्तीति, अर्हन्तस्तीर्थकृतो मे शरणं परित्राणं भवन्त्विति सर्वत्र योज्यम् / अथवा ये राज्यलक्ष्मीमपकर्षयन्तस्त्यजन्तः / तथा तपश्चरणं दुश्चरमनुचरन्तः / केवलश्रीं चार्हन्तः प्राप्नुवन्त ये ते शरणम्। एतेन यद्यपि शक्रादयो गर्भस्थमात्रमपि जिनं नमस्कुर्वन्ति / तथापि गृहवासे तेषामप्यविरतत्वात् साधूनां तिसृष्ववस्थासु ते नमस्करणयोग्या इति दर्शितम् / यत्त्वनागतजिना नमस्क्रियन्ते तत्तेऽपि चारित्रावस्थास्था एवेति भावः [द्रव्यजिनानां नमस्करणीयतायां सर्वविरतानां साधु-साध्वीनां देशविरतानामविरतानां च श्रावक-श्राविकाणां किदृशः कियद् वाऽधिकारो वर्तत