________________ अवचूरिवृत्तिसहितं चतुःशरणम् यत्प्रणतं प्रणामस्तेनोन्मिश्रं व्याकुलं यथाभवत्येवं यदि वा प्रकर्षवशाद्योऽसौ प्रणयानन्दा श्रुगद्गदस्वरस्तेन शीर्षे मस्तके कृताञ्जलिः कृतकरकुड्मलः सन् भणति / / 12 / / सोम० अर्हच्छरणमङ्गीकुर्वन् यदसौ भणति तद्गाथादशकेनाहगुण० यदसौ अर्हच्छरणमुररीकुर्वन् भणति तद् गाथादशकेनाह राग-द्दोसारीणं हंता कम्मट्ठगाइअरिहंता / विसय-कसायारीणं अरिहंता हुंतु मे सरणं / / 13 / / सोम० रागद्दोसा' इति, रागस्त्रिधा दृष्टिरागकामरागस्नेहरागभेदात्, द्वेषः परद्रोहाध्यवसायः / अथवाऽभिष्वङ्गमानं रागः, अप्रीतिमात्रं द्वेषः, एतयोरुपलक्षणत्वात् मदमत्सराहंकाराणां ग्रहः, त एवारयो रागद्वेषारयस्तेषां हन्तारो रागद्वेषारिहन्तारस्तथा कर्मणां ज्ञानावरणादीनामष्टकं कर्माष्टकं तदादौ येषां ते कर्माष्टकादयस्ते च तेऽरयश्च कर्माष्टकाधरयः, आदिशब्दात्परीषहवेदनोपसर्गादिग्रहः, तेषां हन्तारः, षष्ठीलोपोऽत्र द्रष्टव्यः / तथा विषयाः शब्दरूपगन्धरसस्पर्शाः कषायाः क्रोधमानमायालोभा अनन्तानुबन्ध्यादिभेदास्त एव जीवानामनर्थकारित्वादरयस्तेषां' हन्तारः, पाश्चात्यं “हंता" इति पदमत्रापि सम्बध्यते / अथवा विषयकषायाणां विनाशकत्वेनारयस्तीर्थकरा विषयकषायारयः। णमिति वाक्यालङ्कारे, एवंविधा अर्हन्तो जिना मे मम शरणं परित्राणं भवन्त्वित्यर्थः / / 13 / / गुण० द्रव्यभावभेदाद् द्विधा रागः, तत्र द्रव्यरागो हरिद्रादिः, भावरागस्त्रिधा दृष्टिरागो विषयरागः स्नेहरागः, द्वेषः परद्रोहाध्यवसायः, त एवारयो रागद्वेषारयस्तेषां हन्तारः, कमाष्टकाद्येवारयः कर्माष्टकं प्रतीतम्, आदिशब्दात्परीषहवेदनोपसर्गग्रहः, ततः कर्माष्टकाधरयो लुप्तषष्ठीविभक्तित्वात् तेषां हन्तारः, शब्दरूपरसस्पर्शगन्धा विषयाः, क्रोधादयः कषायास्त एवारयस्तेषां हन्तारोऽर्हन्तो जिनाः मे मम अपारसंसारकारागृहपरिचङ्क्रमणभयातुरस्य समाश्वासनस्थानतुल्यं शरणं परित्राणं भवन्त्वित्यर्थः / / 13 / / रायसिरिमवकसित्ता तव-चरणं दुचरं अणुचरित्ता / केवलसिरिमरिहंता अरिहंता इंतु मे सरणं / / 14 / / सोम रायसिरित्ति, राज्यश्रियं राज्यलक्ष्मीमपकृष्य अवधूय त्यक्त्वेत्यर्थः, तथा तप्यते