________________ 72 ' खण्ड-२ समाहारश्चतुर्गति-नरकतिर्यग्नरामरलक्षणं हरन्ति सिद्धिलक्षणपञ्चमगतिप्रापणेनेति चतुर्गतिहरणाः, यस्मादिति गम्यम् / अत एतान् भवाटव्यामटन् शरणरहितः कश्चिद्धन्यः सुकृतकर्मा एव शरणं लभते, शरणत्वेन प्रतिपद्यते इत्यर्थः / / 11 / / गुण० देवेन्द्रादिकृतां पूजामर्हन्तीत्यर्हन्तः / तेऽर्हन्तः प्रथमं शरणम् / तथा सिद्ध्यन्ति निष्ठितार्था भवन्तीति सिद्धाः / सितं ध्मातं वाऽष्टप्रकारं कर्म यैस्ते सिद्धा द्वितीयम् / निर्वाणसाधकान् योगान् साधयन्ति कुर्वन्तीति साधवः तृतीयम् / धरति दुर्गतौ प्रपतन्तं प्राणिनमिति धर्मः / किम्भूतः ? केवलिभिर्जानिभिः कथितः प्रतिपादितः / अनेन स्वमतिप्रकल्पितान्यतीर्थिकधर्मनिरासमाह / कथम्भूतः ? सुखमावहत्यनुबध्नातीति सुखावहः / अनेनेहलोकेऽपि मिथ्यादृष्टिधर्मस्य भैरवपतन-नदीप्लवन-शिरःक्रकचदापनादिदुःखाकीर्णत्वात् परत्र च भवभ्रमणकारणत्वात् तनिषेधमाह, एते चत्वारश्च चतुर्गतिं हरन्तीति सिद्धिलक्षणपञ्चमगतिप्रापणेन चतुर्गतिहरणाः / शरणत्वेन लभते धन्यः सुकृतकर्मा एतानिति गाथार्थः / / 11 / / सोम० अथ यथाविधिना एतान् शरणं प्रपद्यते तथाऽऽहगुण० अथ यथाविधिना एतान् शरणं प्रतिपत्स्यति तथाऽऽह अह सो जिणभत्तिभरुच्छरंतरोमंचकंचुयकरालो / पहरिसपणउम्मीसं सीसम्मि कयंजली भणइ / / 12 / / सोम० 'अह सो 'त्ति, अथ स शरणप्रतिपत्ता चतुर्विधश्रीसङ्घस्यान्यतमो जीवः, कथम्भूतो ? जिनेषु भक्तिस्तस्या भरः प्राबल्यं तस्मार्जिनभक्तिभरात् 'उच्छरंत त्ति अवस्तृणन्नुदयं गच्छन् योऽसौ रोमाञ्चः स एव शरीरावारकत्वात्कञ्चको रोमाञ्चकञ्चकस्तेन करालोऽन्तरङ्गशत्रूणां भीषणः / तथा प्रकृष्टो हर्षः प्रहर्षस्तस्माद्यत्प्रणतं प्रणामस्तेन उन्मिश्रं व्याकुलं यथा भवत्येवम्, यद्वा प्रहर्षवशाद्योऽसौ प्रणय आनन्दाश्रुगद्गदस्वरस्तेनोन्मिश्रम्, क्रियाविशेषण मेतत् / तथा शीर्षे मस्तके कृताञ्जलिः कृतकरकुड्मलः सन् मणति / / 12 / / .. गुण० अथ स शरणं प्रतिपत्ता चतुर्विधसङ्घस्य अन्यतमो जीवः, कथम्भूतः ? जिनेषु भक्तिर्जिनभक्तिस्तस्या भरस्तस्मात्जिनभक्तिभरादवस्तृणन्नुदयं गच्छन् योऽसौ रोमाञ्चः स एव कञ्चुको रोमाञ्चकञ्चकः, तेन करालोऽन्तरङ्गशत्रूणां भीषणः, तथा प्रहर्षात् /