________________ अवचूरिवृत्तिसहितं चतुःशरणम् सोम० अथ प्रस्तुताध्ययनार्थाधिकारानाहगुण० अथ वर्णनीयाध्ययनाधिकारमाह चउसरणगमण दुक्कडगरिहा सुकडाणुमोयणा चेव / एस गणो अणवरयं कायव्वो कुसलहेउ त्ति / / 10 / / सोम० 'चउसरण'त्ति चतुर्णामर्हत्सिद्धसाधुधर्माणां शरणं गमनं प्रथमोऽधिकारः, दुष्टं कृतं दुष्कृतं तस्य गर्दा गुरुसाक्षिकमात्मदोषकथनं द्वितीयोऽधिकारः, शोभनं कृतं सुकृतं तस्यानुमोदना, भव्यं मयैतत्कृतमिति तृतीयोऽधिकारः, चेवे ति समुञ्चये, एषोऽयं गणः त्रयाणां समुदायोऽनवरतं सततं कर्त्तव्योऽनुसरणीयः कुशलो मोक्षस्तस्य कारण मयमितिकृत्वा / / 10 / / गुण० चतुर्णां अर्हत्सिद्धसाधुधर्माणां शरणं गमनं चतुःशरणगमनं तदिह प्रथमाधिकारः / दुष्टं कृतं दुष्कृतं, तस्य गर्दा गुरुसाक्षिकमात्मदोषोद्घट्टनम्, स द्वितीयोऽर्थाधिकारः / शोभनं कृतं सुकृतम्, तस्यानुमोदना, भव्यं मयैतत्कृतमिति स तृतीयोऽर्थाधिकारः / चः समुच्चये, एष अयं यो भणितुमारब्धो गणत्रयाणां समुदायः, अनवरतं सततं कर्तव्योऽनुसरणीयः कुशलो मोक्षस्तस्य हेतुः कारणमितिकृत्वा / / 10 / / सोम० अथ चतुःशरणरूपं प्रथमाधिकारमाहगुण० अथ चतुःशरणरूपं प्रथमाधिकारमाह अरिहंत सिद्ध साहू केवलिकहिओ सुहावहो धम्मो / एए चउरो चउगइहरणा सरणं लहइ धन्नो / / 11 / / सोम० अरिहंते'त्यादि, १-देवेन्द्रादिकृतां पूजामर्हन्तीत्यर्हन्तः / २-तथा सिध्यन्ति निष्ठितार्था भवन्तीति सिद्धाः / ३-तथा निर्वाणसाधकान् योगान् धर्मव्यापारान् साधयन्ति कुर्वन्तीति साधवः / ४-तथा दुर्गतौ प्रपतन्तं प्राणिनं धरतीति धर्मः। किम्भूतः ? केवलिभिः ज्ञानिभिः कथितः प्रतिपादितः केवलिकथित इति, अनेन स्वमतिकल्पितान्यतीर्थिकधर्मनिरासमाह / पुनः कथम्भूतो धर्मः ? सुखमावहति परम्परया चटत्प्रकर्षं प्रापयतीति सुखावहः, अनेन . इहलोकेऽपि मिथ्यादृष्टिधर्मस्य भैरवपतनशिरःक्रकचदापनादिदुःखाकीर्णत्वात् परलोके भवभ्रमणकारणत्वात्तन्निषेधमाह / एतेऽर्हत्सिद्धसाधुधर्माश्चत्वारश्चतसृणां गतीनां