________________ 70 .खण्ड-२ द्वादशस्वप्ने देवलोकागततीर्थकृज्जननी विमानं पश्यति, नरकागतजिनजननी तु भवनम्, विमानभवनयोराकारमात्रकृत एव विशेषः, गजदर्शनात्स्वाम्यपि तद्वदतुलपराक्रमनिधिर्भावी, वृषभदर्शनात् महामोहपङ्कमग्नधर्मरथधुरोद्धरणक्षमो भरते धर्मबीजवापनिमित्तं च भावीति १४स्वप्नैरपि जिनगुणाः सूच्यन्ते, चतुदर्शस्वप्नसंख्यया तु चतुर्दशरज्ज्वात्मकस्यापि लोकस्योपरिवर्ती पुत्रो भावीति निवेद्यते इति सर्वतीर्थकृद् गुणव्यावर्णनरूपं १४स्वप्नमङ्गलमुक्तम् / / 8 / / गुण० तत्र जिनजननी चतुर्दन्तं प्रक्षरन्मदनदीसुन्दरं गोक्षीरधारासोदरमुच्चैस्तरं जङ्गमं रजताचलमिव गजकलभं यदपश्यत्तदतुलबलपराक्रमनिधिं गरीयसामपि गुरुं पवित्रं पुत्रं सूचयति / / 1 / / यच्च वर्णतः शङ्खसुहृदं प्रौढककुदमेवमादि / तदेतैश्चतुर्दशभिर्महास्वप्नैः सूच्यते चतुर्दशर ज्ज्वात्मकस्यापि लोकस्योपरिवर्ती पुत्रो भविष्यतीति / / 8 / / सोम० अथ श्रीवीरनमस्काररूपं तृतीयं मङ्गलं प्रस्तुताध्ययनप्रस्तावनां चाह- . गुण० इति निवेदितं सर्वतीर्थकृद्गुणव्यावर्णनगर्भ मङ्गलम् / अथासन्नोपकारित्वात् श्रीमन्महावीरस्य नमस्करणद्वारेण पुनस्तदाह अमरिंद-नरिंद-मुणिंदवंदियं वंदिउं महावीरं / . कुसलाणुबंधि बंधुरमज्झयणं कित्तइस्सामि / / 9 / / सोम० 'अमरिंदनरिंद'त्ति उपक्रमकृतेनापमृत्युना न. म्रियन्ते इत्यमरास्तेषामिन्द्रा अमरेन्द्राः नराणामिन्द्रा नरेन्द्राः, मुनीनामिन्द्राः मुनीन्द्राः, द्वन्द्वः, तैर्वन्दितं 'वंदिउंति वन्दित्वा, कं ? 'महावीरं' महद्वीर्यं यस्यानन्तबलत्वाद्देवकृतपरीक्षायामपि मनागप्यक्षुभितत्वाञ्च महावीरस्तं 'कुसलानुबंधि'त्ति कुशलो मोक्षस्तमनुबध्नाति परम्परया ददातीत्येवंशीलं कुशलानुबन्धि, तथा बन्धुरं मनोज्ञम्, जीवानामैहिकामुष्मिकसमाधिहेतुत्वात्, किम् ? अधीयते ज्ञायते परिच्छिद्यतेऽर्थसमुदायोऽस्मादित्यध्ययनं शास्त्रम्, अहं कीर्तयिष्यामि कथयिष्यामीति सम्बन्धः / / 9 / / / गुण उपक्रमकृतेनापमृत्युना न म्रियन्त इत्यमरास्तेषामिन्द्राः अमरेन्द्राः, नराणामिन्द्राः नरेन्द्राः, मुनीनामिन्द्राः मुनीन्द्राः / अमरेन्द्रनरेन्द्रमुनीवन्दितं वन्दित्वा महद्वीर्यं यस्य स महावीरस्तम्, कुशलो मोक्षस्तमनुबध्नातीत्येवंशीलं कुशलानुबन्धि बन्धुरं मनोज्ञम् / अधीयते ज्ञायते परिछिद्यतेऽर्थसमुदायोऽस्मादिति अध्ययनं शास्त्रं कीर्तयिष्यामि / / 9 / /