________________ अवचूरिवृत्तिसहितं चतुःशरणम् "बारसविहं मिवि तवे" इति गाथोक्तस्य शुद्धिः क्रियते इति संटङ्कः / 'विरिया'यारस्स'त्ति विशेषेणेरयति प्रवर्त्तयत्यामानं तासु तासु क्रियास्विति वीर्यं तपोवीर्यगुणवीर्य-चारित्रवीर्य-समाधिवीर्य-आत्मवीर्यभेदभिन्नं पञ्चविधं तस्याचारो वीर्याचारः "अणिगूहिअबलविरिए" इत्यादिकस्तस्य सर्वरपि पूर्वोक्तैः षड्भिरप्यावश्यकैः शुद्धिः क्रियते, अन्यूनाधिकावश्यककरणप्रयत्नेन वीर्याचारशुद्धिर्भवत्येव, महाकर्मनिर्जरा-हेतुत्वात् / / 7 / / गुण० गुणा विरत्यादय उत्तरोत्तरगुणाः / आश्रवद्वारस्थगनम्, तत्स्थगनाच्च तृष्णाव्यवच्छेद स्तृष्णाव्यवच्छेदाच्चानुपमोपशमस्तस्माच्च प्रत्याख्यानशुद्धिस्तच्छुद्धेश्च चारित्रनैर्मल्यं तस्माच्च कर्मविवेकस्तस्माच्चापूर्वकरणमपूर्वकरणाच्च केवलज्ञानम्, ततश्च मोक्षो भवतीत्युत्तरोत्तरगुणास्तेषां गुणानां धारणं गुणधारणं तदेव रूपं यस्य तेन अनागता-दिदशविधेन सप्तविंशतिविधेन वा प्रत्याख्यानेन तपआचारातिचारस्य, “बारसविहंमिवि तवे"इत्यादिकस्य शुद्धिः क्रियते इति हृदयम् / विशेषेणेरयति प्रवर्तयत्यात्मानं तासु तासु क्रियास्विति वीर्यमुत्साहविशेषस्तच्च पञ्चधा, यदाह तवविरियं गुणविरियं, चरित्तविरियं समाहिविरियं च / आयविरियपि य तहा, पंचविहं वीरियं होइ / / 1 / / : तस्याचारो वीर्याचारः, “अणिगूहिये" त्यादिकस्तस्य सर्वरपि षड्भिरपि शुद्धिः ". क्रियते इत्यर्थः यदाह - आवस्सएसु० / / 7 / / सोम० उक्ता आचारपञ्चकशुद्धिः, अथ सर्वजिनगुणोत्कीर्त्तनगर्भ मङ्गलभूतं गजादि स्वप्नसन्दर्भमाहगुण० अथ व्यावर्णिताचारपञ्चकशुद्धिरथ सर्वजिनगुणोत्कीर्तनगर्भ मङ्गलभूतं गजादि. स्वप्नसन्दर्भमाह गय वसह सीह अभिसेय दाम ससि दिणयरं झयं कुंभं / पउमसर सागर विमाण-भवण, रयणुञ्चय सिहिं च / / 8 / / सोम० गाथा सुगमा, नवरं 'अभिसे अत्ति चतुर्थस्वप्ने पार्श्वद्वयवर्तिकरिकलभशुण्डा- दण्डविधृतकलशयुगलाभिषिच्यमानां लक्ष्मी जिनमाता पश्यति, "विमाणभवण'त्ति