________________ खण्ड-२ गुण० चरणमतिगच्छन्त्यतिक्रामन्तीति चरणातिगास्ते आदौ येषां ते चरणातिगादिका अतिचारा इति दृश्यम् तेषां यथाक्रमं क्रमप्राप्तेन पञ्चमप्रायश्चित्तेन द्रव्यभावभेदेन द्विधा व्रणस्तत्र द्रव्यव्रणः कण्टकादिः भावव्रणस्त्वतिचारशल्यरूपस्तस्य या चिकित्सा प्रतीकारः सैव रूपं यस्य सः, तेन व्रणचिकित्सारूपेण तत्प्रतीकारकारणत्वात्, चरणातिगादिकानां कथम्भूतानाम् ? प्रतिक्रमणेन अशुद्धानामर्धशुद्धानां वा तथैव शुद्धिः क्रियते, कायोत्सर्गेण ते शोध्यन्त इत्यर्थः, कायोत्सर्गस्य महनिर्जराकारणत्वात् [महानिर्जरा...] तथाहि - जह करगओ निकिंतइ, दारुं इंतो पुणो वि वच्चंतो / इय कंत्तंति सुविहिया, काउस्सग्गेण कम्माई / / [आव.नि. 237] काउस्सग्गे जह, सुट्ठियस्स भज्जति अंगुवंगाई / इय भिंदति मुणिवरा, अट्ठविहं कम्मसंघायं / / [आव.नि. 1551] तम्हा उ निम्ममेणं, मुणिणा उवलद्धसुत्तसारेण / काउस्सग्गो उग्गो, कम्मक्खयट्ठाय कायव्वो / / [आव.नि.१५५४] ननु “नाणाईआ उ गुणा" इत्यत्र ज्ञानादय इत्युक्तम् / “चरणाइआणमि"त्यत्र चरणादय इति तत्कोऽत्र विशेषः ? उच्यते- एकत्र ज्ञाननयप्राधान्याश्रयणेन ज्ञानादय इत्युक्तम् / अपरत्र क्रियानयप्राधान्यविवक्षणेन चरणादय इति / / 6 / / सोम० एवं गाथापञ्चकेनाचारत्रयस्य शुद्धिरुक्ता, अथ तपोवीर्याचारयोस्तामाहगुण० वर्णिता आचारत्रयशुद्धिर्गाथापञ्चकेन, अथ तुर्यपञ्चमाचारावेकगाथयैवाह गुणधारणरूवेणं पञ्चक्खाणेण तवइयारस्स / विरियायारस्स पुणो सव्वेहि वि कीरए सोही / / 7 / / सोम० 'गुणधारणे'त्यादि, गुणा विरत्यादय उत्तरोत्तरा यथा विरतेराश्रवद्वारस्थगनं तत्स्थगनात्तृष्णाव्यवच्छेदस्तद्व्यवच्छेदादतुलोपशमस्तस्मात्प्रत्याख्यानशुद्धिस्तच्छुद्धेश्चारित्रनैर्मल्यं तस्मात्कर्मविवेकस्तस्मादपूर्वकरणमपूर्वकरणात्केवलज्ञानं ततश्च मोक्षो भवतीति, तेषां गुणानां धारणं गुणधारणं तदेव रूपं यस्य तेन प्रत्याख्यानेन"अणागयमइक्वंतं" इत्यादिदशविधेन / अथवा पञ्चमहाव्रतद्वादशश्राद्धव्रतनमस्कारसहितादिदशप्रत्याख्यानरूपसप्तविंशतिविधेन वा तपआचारातिचारस्य