________________ अवचूरिवृत्तिसहितं चतुःशरणम् 67 सञ्जातातिचारस्य च विधिना सूत्रोक्तप्रकारेण 'जं निंदणाइ' इति यन्निन्दनं निन्दनादुष्टं -मयैतत्कृतमिति, आदिशब्दाद् गर्दादिग्रहः, गुरुसाक्षिकमात्मदोषाविष्करणं गर्हा, एवंप्रकारेण स्खलितस्य यन्निन्दनादिकरणं तस्माद्दोषजातान्निवर्त्तनं तत्प्रतिक्रमणमुच्यते इति शेषः, प्रतीपं क्रमणं प्रतिक्रमणमिति व्युत्पत्तेः, अतः कारणात्तेन प्रतिक्रमणेन 'तेसि पि यत्ति न केवलं सामान्यतो व्रतादिविषयापराधानाम्, किन्तु तेषामपि ज्ञानाचारादीनां क्रियते विशोधिर्निर्मलतेति / / 5 / / गुण० स्खलितस्य व्रतविषयेऽतिक्रमादिना सञ्जातस्यापराधस्य तेषां ज्ञानाचारादीनाम्, कथम् ? पुनरपि प्रतिषिद्धकरणकृत्याकरणाश्रद्दधानविपरीतप्ररूपणादिषु विधिना सूत्रानतिक्रमेण यन्निन्दनं-दुष्टं मयैतत्कृतमिति परसाक्षिकमात्मदोषाविष्करणम्, न पुनः करिष्यामीति यदुररीकरणम्, तस्माद्दोषजातान्निवर्त्तनं तत्प्रतिक्रमणमुच्यते, अतः कारणात्तेन प्रतिक्रमणेन तेषामपि च ज्ञानाचारादीनां क्रियते शोधिः यदाह - भगवान् सुधर्मा - पडिक्कमणेणं मंते जीवे किं जणइ ? पडिक्कमणेण वयछिद्दाइ पिहेइ / / 5 / / [उत्तराध्ययने 29 अ०] चरणाइयाइंयाणं जहक्कम वणतिगिच्छरूवेणं / पडिकमणासुद्धाणं सोही तह काउसग्गेणं / / 6 / / सोम० 'चरणाइय'त्ति चरणं चारित्रमतिगच्छन्त्यतिक्रामन्तीति चरणातिगा अतिचारा इति . . दृश्यम्, ते आदौ येषां ते चरणातिगादिकाः-सर्वेऽप्यतिचारास्तेषां चरणातिगादिकानाम् / कथम्भूतानाम् ? प्रतिक्रमणेन-प्रागुक्तेनाशुद्धानामर्द्धशुद्धानां वा शुद्धिस्तथैव प्रागुक्तप्रकारेण क्रियते / केन ? कायोत्सर्गेण, किम्भूतेन ? जहक्कम वणतिगिच्छ त्ति यथाक्रमं क्रमप्राप्तेन "आलोअण पडिकमणे" इतिगाथोक्तदशविधप्रायश्चित्तमध्ये पञ्चमप्रायश्चित्तेन वण त्ति द्रव्यभावभेदेन द्विधा व्रणम्, तत्र द्रव्यव्रणः कण्टकभङ्गादिजनितो भावव्रणस्त्वतिचारशल्यरूपस्तस्य भावव्रणस्य चिकित्सा प्रतीकारः / सैव रूपं यस्य कायोत्सर्गस्य, स व्रणचिकित्सारूपस्तेन कायोत्सर्गेणातिचाराः शोध्यन्ते इति भावः, महन्निर्जराकारणत्वात् [महानिर्जरा...] तस्य / प्राक् “नाणाईआ" इत्यत्र ज्ञाननयप्राधान्याश्रयणात् ज्ञानादय इत्युक्तम्, * "चरणाइआ" इत्यत्र तु क्रियानयप्राधान्याश्रयणाच्च विवक्षया चरणादय इति / / 6 / /