________________ खण्ड-२ चारित्राचारग्रहो, ज्ञानदर्शनचारित्रयुक्त एव वन्दनका) नान्यः / ज्ञानवानपि पार्श्वस्थादिर्व्यवहारतश्चारित्रवानपि निह्नवादिरिति ज्ञापनार्थः / ज्ञानमादौ येषां ते ज्ञानादिकाः, तुः अवधारणे, एते ज्ञानादिका एव गुणा इत्यर्थः, तैर्ज्ञानादिगुणैस्सम्पन्ना युक्तास्तत्सम्पन्ना गुरवस्तेषां प्रतिपत्तिर्भक्तिस्तस्याः करणं तस्मात् तत्सम्पन्नप्रतिपत्तिकरणाद्विनयकरणादित्यर्थः / केन ? वन्दनकेन, कथम् ? विधिना द्वात्रिंशदोषरहिततया पञ्चविंशत्यावश्यकविशुद्धतया च / तेसिं तु त्ति तेषां ज्ञानाचारादीनां तुः पुनरर्थे चारित्राचारदर्शनाचारयोः प्राक्शोधितयोरपि पुनर्विशेषेण शोधिः क्रियते इत्यर्थः / / 4 / / . गुण० "काले विणए" इत्यादिकोऽष्टविधो ज्ञानाचारो गृहीतः, आदिशब्दाद् दर्शनाचार चारित्राचारग्रहः, यतो ज्ञानवानपि दर्शनचारित्रगुणयुक्त एव वन्दनकप्रतिपत्तियोग्यः / येन ज्ञानवन्तोऽपि पार्श्वस्थादयोऽवन्द्याश्चारित्ररहितत्वात् / तथा व्यवहारतश्चारित्रिणोऽपि निह्नवा न वन्दनकयोग्या जिनवचनाश्रद्दधानेन दर्शनाभावादित्यर्थः / तुरवधारणे। ज्ञानमादौ येषां ते ज्ञानादिका एते एव गुणा इत्यर्थः, 'तस्संपन्न 'त्ति तैर्ज्ञानादिगुणैः सम्पन्ना युक्तास्तत्सम्पन्नास्तेषां प्रतिपत्तिर्भक्तिस्तस्याः करणं तस्मात्तत्सम्पन्नप्रतिपत्तिकरणाद्विनयकरणादित्यर्थः / केन ? वन्दनकेन, कथम् ? विधिना विधिवद द्वात्रिंशद्दोषरहिततया पञ्चविंशत्यावश्यकपरिशुद्धतया च क्रियते शोधिरिति / तेषां ज्ञानाचारादीनाम्, तुः पुनरर्थे चारित्राचारदर्शनाचारयोः शोधितयोरपि विशेषेण शोधनार्थः / / 4 / / सोम० उक्ता वन्दनकेन ज्ञानाद्याचारत्रयशुद्धिः, सम्प्रति प्रतिक्रमणकायोत्सर्गाभ्यां गाथाद्वयेन तामाहगुण० प्रतिपादिता वन्दनकेन ज्ञानादीनां शुद्धिः / पुनस्तेषामेव विशेषतो शुद्धिर्गाथाद्वयेन प्रतिक्रमणकायोत्सर्गाभ्यामेवाह खलियस्स य तेसि पुणो विहिणा जं निंदणाइ पडिकमणं / तेण पडिक्कमणेणं तेसि पि य कीरए सोही / / 5 / / . सोम० स्खलितस्य व्रतविषयस्यातिक्रमव्यतिक्रमादिप्रकारसञ्जातापराधस्य तथा 'तेसिं'ति तेषां ज्ञानाचारादीनां पुनः प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिप्रकार