________________ अवचूरिवृत्तिसहितं चतुःशरणम् सोम० उक्ता चारित्राचारविशुद्धिः, अथ दर्शनाचारविशुद्धिमाहगुण-उक्ता सामायिकेन चारित्राचारशुद्धिः, अथ दर्शनाचारशुद्धिमाह दसणायारविसोही चउवीसायथएण कन्जई य / अञ्चन्मयगुणकित्तणरूवेणं जिणवरिंदाणं / / 3 / / सोम० 'दंसणे'त्यादि, दर्शनं-सम्यक्त्वं तस्याचारो-निश्शङ्कितेत्याद्यष्टविधस्तस्य विशोधिनिर्मलता चतुर्विशतेरात्मनां-जीवानां तीर्थङ्करसम्बन्धिनां स्तवः क्रियते यत्र स चतुर्विशत्यात्मस्तवो “लोगस्से"त्यादिरूपस्तेन क्रियते, 'चउवीसाइत्थएणे ति पाठे जिनानां चतुर्विंशत्याः स्तवेनेत्यर्थः / चकारो द्वितीयावश्यकसमुञ्चयार्थः / चतुर्विंशतिस्तवैन किम्भूतेनेत्याह-'अञ्चन्मुअ' इत्यादि, अत्यद्भुताः-सर्वातिशायिनो लोकोद्योतकरादयो ये गुणास्तेषां यदुत्कीर्तनं-वर्णनं तद्रूपेण / केषां तदित्याह"जिनवरिंदाणं' ति जिना रागादिजयादुपशान्तमोहादयस्तेषां मध्ये वराः-केवलि नस्तेषामिन्द्रा इव इन्द्रास्तीर्थङ्करा जिनवरेन्द्रास्तेषामित्यर्थः / / 3 / / गुण० दृश्यन्तेऽवबुध्यन्ते यथावस्थिततत्त्वरूपेण पदार्था अनेनेति दर्शनं सम्यक्त्वम्, तस्याचारो दर्शनाचारः, “निस्संकिये"त्याद्यष्टविधस्तस्य विशोधिश्चतुर्विंशतेरात्मनां जीवानां तीर्थङ्करसम्बन्धिनां स्तवनं स्तवः क्रियते यत्र स चतुर्विंशत्यात्मस्तवस्तेन चतुर्विशत्यात्मस्तवेन, किम्भूतेन ? अत्यद्भुता अतिशायिनो लोकोद्योतकरादयो ये गुणास्तेषां यदुत्कीर्तनं वर्णनं तद्रूपेण, केषाम् ? रागादिजयाज्जिनाः उपशान्तमोहादयः तेषां मध्ये वराः घातिकर्मचतुष्टयक्षयेण सामान्यकेवलिनस्तेषामिन्द्रा इव इन्द्रास्तीर्थङ्करा जिनवरेन्द्रास्ते षामित्यर्थः / / 3 / / सोम० उक्ता चतुर्विंशतिस्तवेन दर्शनाचारशुद्धिरिदानी ज्ञानाचारस्य चारित्राचारदर्शनाचारयोश्च .. विशेषेण शुद्धिमाहगुण० उक्ता चतुर्विंशतिस्तवेन दर्शनाचारविशुद्धिरिदानी ज्ञानाचारशुद्धिमाह - नाणाईया उ गुणा, तस्संपन्नपडिवत्तिकरणाओ / वंदणएणं विहिणा कीरइ सोही उ तेसिं तु / / 4 / / सोम० 'नाणाईआ' इति 'नाण'त्ति ज्ञानाचारः कालविनयाद्यष्टविधः, आदिशब्दाद्दर्शन