________________ 64 खण्ड-२ क्रियते / तथा स्खलनं स्खलितमात्मनः सातिचारकरणं तस्य निन्दनं निन्दा न पुनः करिष्यामीत्यभ्युपगमनं सा प्रतिक्रमणेन क्रियते / चिकित्सनं चिकित्सा व्रणस्यातिचाररूपभावव्रणस्य चिकित्सा व्रणचिकित्सा, सा कायोत्सर्गेण क्रियते / तथा गुणा विरत्यादयः, धरणं धारणा तेषां धारणा गुणधारणा, सा प्रत्याख्यानेन क्रियते / चेवेति समुच्चये / / 1 / / सोम० अथ किञ्चिद्विशेषत एतेषां सामायिकादीनां षण्णामपि स्वरूपं चारित्रविशुद्ध्यादिरूपं फलं चाहगुण० उक्तः सर्वोपतः सामायिकाद्यर्थः, एतेषां षण्णामपि सामायिकादीनामाचारपञ्चकविशुद्धिलक्षणफलप्रदर्शनार्थं किञ्चिद्विशेषस्वरूपभणनार्थं गाथाषट्कमाह चारित्तस्स विसोही कीरइ सामाइएण किल इहयं / सावजेयरजोगाण वजणाऽऽसेवणत्तणओ / / 2 / / सोम० 'चारित्ते'त्यादि, चारित्रस्य चारित्राचारस्य पञ्चसमितित्रिगुप्तिरूपस्य विशोधनं विशोधिनिर्मलता क्रियते, केन ? सामायिकेन समभावलक्षणेनं 'किले 'ति सत्ये 'इहयंति इहैव जिनशासने नान्यत्र शाक्यादिदर्शने, तेषु सामायिकपरिभाषाया अप्यभावात् / कथं सामायिकेन विशोधिः क्रियते ? इत्याह-'सावजे ति सावधाः सपापा इतरे च निरवद्या ये योगाः कायादिव्यापारास्तेषां यथासङ्ख्येन ये वर्जनासेवने ताभ्यां वर्जनासेवनतः सावद्यानां वर्जनत इतराणां [इतरेषां] त्वासेवनतश्च तेन विशोधिः क्रियते इति तात्पर्यार्थः / / 2 / / . गुण० चयस्य रिक्तीकरणाञ्चारित्रम्, सूत्रस्य सूचकत्वात् चारित्रस्य चारित्राचारस्य, "पणिहाणे"त्यादि अष्टविधस्य विशोधनं विशोधिः, चारित्रस्य विशोधिश्चारित्रविशोधिः क्रियते, केन ? सामायिकेन समभावलक्षणेन किले ति सम्भावनायाम् / किं सम्भावयति ? 'इहयं त्ति इहैव जिनशासने, न शाक्यादिदर्शने, तदर्शनेषु सामायिक इति भाषाया अप्यभावात् / कथं च सामायिकेन विशोधिः क्रियते ? इत्याह-सावद्याः सपापा इतरे च निरवद्याश्च इतरे च [सावद्याश्च] सावद्येतरास्ते च ते योगाश्च सावघेतरयोगास्तेषां वर्जना च आसेवना च वर्जनासेवने, ताभ्यां वर्जनासेवनतः यथासङ्ख्येन सावद्यानां वर्जनतः, इतराणां [इतरेषां] त्वासेवनतो विशोधिस्तेन क्रियते इति तात्पर्यार्थः / / 2 / /