________________ श्रीमत्तपागच्छपुरन्दरश्रीसोमसुन्दरसूरिविरचितावचूरियुतं तार्किकरत्नपूज्यपादाचार्यदेव श्रीमद्गुणरत्नसूरिकृतवृत्तिसहितं श्रीकुशलानुबन्ध्यध्ययनरूपं श्रीचतुःशरणप्रकीर्णकम् सोम० इदमध्ययनं परमपदप्राप्तिबीजभूतत्वात् श्रेयोभूतम् / अतस्तदारम्भे ग्रन्थकृन्मङ्गल रूपसामायिकाद्यावश्यकार्थकथन-भावमङ्गलकारणद्रव्यमङ्गलभूतगजादि१४स्वप्नोच्चारव्याजसर्वतीर्थकृद्गुणस्मरण-वर्तमानतीर्थाधिपतिश्रीवीरनमस्करणरूपं मङ्गलत्रयमाह'सावज्जे 'ति, अथवा षडावश्यकयुतस्यैव प्रायश्चतुःशरणप्रतिपत्त्यादियोग्यता स्यादतः प्रथमं षडावश्यकमाहगुण० नमः श्रीसर्वज्ञाय / सावृजजोगविरई उक्लित्तण गुणवओ य पडिवत्ती / खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव / / 1 / / सोम० 'सावज्जे 'त्यादि, सहावद्येन पापेन वर्तन्ते इति सावद्याः योगा मनोवाक्कायव्यापारास्तेषां . विरतिनिवृत्तिः सावद्ययोगविरतिः सा सामायिकेनैव क्रियते इत्यध्याहार्यम् 1, उत्कीर्तनं जिनगुणानामुत्कीर्तना, सा चतुर्विंशतिस्तवेन क्रियते 2, गुणा ज्ञानदर्शनचारित्राद्यास्ते विद्यन्ते येषां ते गुणवन्तो गुरवस्तेषां प्रतिपत्तिर्भक्तिर्गुणवत्प्रतिपत्तिः सा वन्दनकेन क्रियते 3, स्खलनं स्खलितं आत्मनोऽतिचारापादनं तस्य निन्दनं निन्दना न पुनः करिष्यामीत्यभ्युपगमनं सा प्रतिक्रमणेन क्रियते 4, चिकित्सनं चिकित्सा व्रणस्यातिचाररूपभावव्रणस्य चिकित्सा प्रतीकाररूपा सा कायोत्सर्गेण क्रियते 5, गुणा विरत्यादयो मूलगुणोत्तरगुणरूपास्तेषां धारणं धारणा सा प्रत्याख्यानेन क्रियते 6, चेवे ति षण्णामपि समुञ्चये / / 1 / / गुण सहावद्येन पापेन वर्तन्त इति सावद्याः, युज्यन्त इति योगा मनोवाक्कायव्यापाराः, सावद्याश्च ते योगाश्च सावधयोगाः, विरमणं विरतिस्तेषां विरतिस्तद्विरतिः, सामायिकेन क्रियते इत्यध्याहार्यम् / उत्कीर्तनमुत्कीर्तना सा चतुर्विंशतिस्तवेन क्रियते / गुणा ज्ञानदर्शनचारित्राद्यास्ते विद्यन्ते येषां ते गुणवन्तस्तेषां प्रतिपत्तिर्भक्तिर्गुणवत्प्रतिपत्तिः, सा वन्दनकेन