SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ खण्ड-१ : श्लोक-६३ चतुरङ्गो जिनधर्मो न कृतः, चतुरङ्गशरणमपि न कृतम् / . चतुरङ्गभवस्य छेदो न कृतो हा ! हारितं जन्म / / 2 / / चत्वारि दान-शील-तपो-भावनारूपाण्यङ्गानि यस्य सः चतुरङ्गः दानादिचतुःप्रकार इत्यर्थः, जिनधर्मोऽर्हद्धर्मो न कृतो न विहित आलस्यमोहादिभिः कारणैर्विगतविवेकत्वात् / तथा न केवलं चतुरङ्गधर्मो न कृतः, किन्तु चतुरङ्गशरणमप्यर्हत्-सिद्ध-साधु-धर्मशरणमपि न कृतम् / तथा चतुरङ्गभवस्य नरक-तिर्यक्-नरा-ऽमरलक्षणस्य छेदो विनाशो विशिष्टचारित्रतपश्चरणादिना न कृत इति / हा इति खेदे, हारितं वृथा नीतं जन्म मानुषभवः, तस्य हारणं चाऽकृतधर्मत्वेनाऽतिशयेन मानुषभवस्य पुनः दुष्प्रापत्वात्। किञ्च - "न कयं दीणुद्धरणं, न कयं धम्मिअजणम्मि वच्छल्लं / हिययम्मि वीयराओ, न धारिओ हा हारिओ जम्मो" / / [आराधनापताका-७७४] तथा देवा अप्यनेनैव प्रकारेणाऽकृतजिनजन्मादिमहोत्सवाश्च्यवनसमये खेदं कुर्वन्तीति - :: "न कयाइ मए महिमा; जिणकल्लाणेसु सुकयकल्लाण / - मंदरगिरिनंदीसरमाईसु निसढकुडेसु" / / [आराधनापताका-७७५] इत्यादि / / 62 / / .. अथ समस्ताऽध्ययनोपसंहारमाह - इय जीय ! पमायमहारिवीरभदंतमेयमज्झयणं / झाएसु तिसंझमवंझकारणं निव्वुइसुहाणं / / 63 / / इति जीव ! प्रमादमहारिवीरं भद्रान्तमेतदध्ययनम् / ध्याये त्रिसन्ध्यमवन्ध्यकारणं निर्वृतिसुखानाम् / / 3 / / इत्युक्तप्रकारेण जीय त्ति हे जीव ! आत्मन् ! पमायमहारि त्ति प्रमादा एव महान्तोऽरयः शत्रवः प्रमादमहारयः, महारित्वं चैषां तद्वशवर्तिनोऽतिशयद्धिश्रुतसम्पदुपेता अपि च 'दुर्गतिभाजो भवन्तीति यदाह - __ "आहारगा वि मणनाणिणो वि सव्वोवसंतमोहा वि / हुति पमायपरवसा तयणंतरमेव चउगइया" / / [हितोपदेश-४८९] 1. मानुषत्वस्य ड३ / 2. चतुर्गतिभाजो-ड३ /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy