________________ चतुःशरणप्रकीर्णकम्ः श्लोक-६३ तथा - "पमाएणं महासूरी संपुनसुयकेवली / अणंताणंतकालं तु ऽणंतकायंमि संवसे" / / [ ] किञ्च - "जेसिं तु पमाएणं, गच्छइ कालो निरत्थओ धम्मो / ते संसारमणंतं, हिंडंति पमायदोसेण" / / "तम्हा खलुप्पमायं, चईऊणं पंडिएण पुरिसेण / दसण-नाण-चरित्ते, कायव्वो अप्पमाओ य" / / [उत्तरा० सू- 526-527] ततः प्रमादमहारीणां वीरवद्वीरं प्राकृतत्वादनुस्वारलोपः सुभटकल्पमित्यर्थः भद्रं कल्याणमन्ते यस्मात् तद्भद्रान्तं मोक्षप्रापकमित्यर्थः अथवा वीरभद्रान्तं अन्त्याराधनान्तं यावदैवेतदध्ययनं ध्यायन् स्मरन् त्रिसन्ध्यं सन्ध्यात्रये कथम्भूतमवन्ध्यकारणं सफलकारणम्, केषाम् ? णिव्वुइ सुहाणं निर्वाणं निर्वृतिर्मोक्ष इत्यर्थः / तत्स्वरुपमेवम् - "जत्थ न जरा न मञ्चू न वाहिणो नेय सव्वदुक्खाई / तिहुयणसुक्खाओ परं नवरं पुण अणुवमं सुक्खं" / / इति - तस्या निर्वृतेः सुखानि तत्सुखानि तेषामित्यर्थः / अथ च शास्त्रकर्तुः समासगर्भमस्यां गाथायामभिधानं ज्ञातव्यम् / तथाहि - इतिरुल्लेखो जितप्रमादमहारिश्चासौ वीरभद्रश्च जितप्रमादमहारिवीरभद्रस्तस्येदं तदेवोक्तलक्षणमध्ययनं ध्यायेत्यादि शेषं पूर्ववत् / अथ गुरुसम्प्रदायः - श्रीवीरजिनवरसत्कचतुर्दशसहस्रसाधुमध्यवर्तिश्रीवीरभद्रसाधुकृतं चतुःशरणाख्यं प्रकीर्णकमित्यर्थः / / उक्तञ्च - "चउदससहस्साई पयन्नाणं तु वद्धमाणस्स / / सेसाण जत्तिया खलु सीसा पत्तेयबुद्धा वा" / / [व्यव. भा० 4671] - / / समाप्तं चतुःशरणप्रकीर्णकविवरणम् / / / / ग्रन्थाग्रश्लोक-१०८०।। / / / शुभं भवतु कल्याणमस्तु / / // वैक्रमीये 2064 तमे वर्षे विजयकीर्तियशसूरिणा संशोधितं सम्पादित दं श्रीचिरन्तनाचार्यरचितबृहदिवरणान्वितं श्रीवीरभद्रगणिप्रणीतं श्रीचतुःशरणप्रकीर्णकं समाप्तम् / / 1. समाप्तचतुःशरणाध्ययनविवरणं / ग्रन्थाग्रं-१०८० / विनयराजगणि-डर /