SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ चतुःशरणप्रकीर्णकमः श्लोक-६१, 62 किञ्चाऽल्पस्थितिका दीर्घकालस्थितिः करोत्यल्पप्रदेशिका बहुप्रदेशिकाश्च करोति / तथा असुहाउत्ति याश्चाऽशुभा. द्वयशीतिसङ्ख्या: नाणंऽतराय दसगं [नवतत्त्व प्र. गा. 18] इत्यादिकाः पापप्रकृतीः पूर्वं बद्धा अथवा बद्ध्यमानास्ता निरनुबन्धास्तद्विपाकजननदुःखरहिताः करोति / ' तथा तीव्राश्च ताः सतीः शुभपरिणामेनैव मन्दानुभावा अल्पविपाकाः करोति, किंञ्च दीर्घकालस्थिति-रल्पकालस्थितिः करोति / बहप्रदेशिका अल्पप्रदेशिकाः करोति / उक्तञ्च - 28 "सव्वपगईणमेवं परिणामवसा दुवक्कमो भणिओ / / पायमनिकाइयाणं तवसा उ निकाइयाणं पि" / / [वि.आ.भा.२०४६] इति गाथाभावार्थ: / / 60 / / यस्मादेतञ्चतुःशरणाद्युक्तहेतुभिर्महाफलमतश्चावश्यमेव कर्तव्यमिति दर्शयन्नाऽऽह - ता एयं कायव्वं बुहेहिं निचं पि संकिलेसम्मि / होइ तिकालं सम्मं असंकिलेसम्मि सुगईफलं / / 61 / / तस्मादेतत्कर्त्तव्यं बुधैः नित्यमपि सङ्क्लेशे / . भवति त्रिकालं सम्यकसङ्क्लेशे सुगतिफलम् / / 1 / / ता इति तस्मात् कारणादेतदनन्तरोदितं चतुःशरणादि कर्त्तव्यं विधेयं बुधैरवगततत्त्वैनित्यमपि सततमपि यथा कर्षकैः शाल्यादिशस्यनिमित्तं बीजमुप्तं सत् पलालाद्यानुषङ्गिकं जनयन् शस्यसम्पत्तये भवत्येवं चतुःशरणाद्यपि कर्मनिर्जरायै क्रियमाणमिहलोकेऽपि रोगाद्युपसर्गोपशान्तयेऽपि स्यादिति दर्शयति संकिलेसम्मि त्ति संक्लेशे रोगाद्यापदि निरन्तरं कर्त्तव्यम्, क्रियमाणं तदुपशमाय स्यादिति तथा भवति त्रिकालं त्रिसन्ध्यं विधीयमानं सम्यक् मनोवाक्कायोपयुक्ततया 'असंकिलेसम्मि' त्ति असंक्लेशे रोगाद्यभावे सुगतिफलं स्वर्गापवर्गगतिफलमित्यर्थः / उक्तं च - . "उक्कोसं दव्वत्थय-माराहियं जाइ अनुयं जाव / भावत्थएण पावइ, अंतमुहुत्तेण निव्वाणं" / / [दर्शनशुद्धि० 82] इति भावार्थः / / 61 / / अथ योऽतीवदुर्लभां मानुषत्वादिसामग्रीमवाप्याऽपि प्रमादादिना न चतुःशरणादिकृतवान् तस्यान्त्यसमये मनसि पश्चात्तापः स्यादिति दर्शयन्नाऽऽह - चउरंगो जिणधम्मो न कओ, चउरंगसरणमवि न कयं / . चउरंगभवच्छे ओ न कओ, हा ! हारिओ जम्मो / / 6 / / 28-परि-२।
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy