________________ चतुःशरणप्रकीर्णकमः श्लोक-५८, 59 तथा सर्वेषां सम्यक् तत्त्वं सम्यक्त्वं जिनोक्ततत्त्वश्रद्धानरूपम्, उक्तञ्च - "जियराग-दोस-मोहेहिं भासियं जमिह जिणवरिंदेहिं / तं चेव होइ तत्तं इय बुद्धी होइ सम्मत्तं" / / [ ] तदेतत् सम्यक्त्वमनुमन्ये अनुमोदयामि, केषामिति ? सम्यगविपर्यस्ता दृष्टिदर्शनं येषां ते सम्यग्दृष्टयस्तेषां सम्यग्दृष्टीनामविरतानामपि देवैरप्यचाल्यसम्यक्त्वानां श्रेणिकादीनामिवेत्यर्थः / / 57 / / अथ कियन्त्यनुमोदनास्थानान्युच्यन्ते इति सर्वसङ्ग्रहमाह - अहवा सव्वं चिय वीयरायवयणाणुसारि जं सुकडं / ... कालत्तए वि तिविहं अणुमोएमो तयं सव्वं / / 58 / / अथवा सर्वमेव वीतरागवचनानुसारि यत् सुकृतम् / कालत्रयेऽपि त्रिविधमनुमन्यामहे तत्सर्वम् / / 58 / / अथवा सव्वं चिय त्ति चिय एवाऽर्थे, ततः सर्वमेव वीतरागवचनाऽनुसारि जिनमताऽनुयायि यत् सुकृतं किञ्चिद् दृश्यते तत् - तथा . . _ जिणभवण-बिंबकारण पइट्ठसिद्धंत पुत्थयल्लिहणं / . .. रह- तित्थजत्त-मुणिदाण-संघवच्छल्लगाइयं" / / [ ] अन्नं च - "नाण-दसण-उवहाणपहाणविणयचरणगुणो / , जिणसासणप्पभावण उवसमसंवेगमाइयं" / / [ ] इति एवमाद्यन्यदपि जिनशासनोक्तं पुण्यबन्धप्रबन्धजनकं कालत्रयेऽपि त्रिविधं मनो-वाक्-कायैः कृतं कारितमनुमोदितमनुमोदयामो अनुमन्यामहे तत्कं सर्वमिति गाथार्थः / / 58 / / तदयमभिहितः सुकृतानुमोदनालक्षणस्तृतीयोऽर्थाऽधिकारः / अथ चतुःशरणादिकुर्वतो यद् भवति तद् गाथाद्वयेन दर्शयन्नाऽऽह - सुहपरिणामो निश्चं, चउसरणगमाइ आयरं जीवो / कुसलपयडीओ बंधइ, बद्धाउ सुहाणुबंधाओ / / 59 / / .. शुभपरिणामो नित्यं चतुःशरणगमनादिराचरन् जीवः / कुशलप्रकृतीवघ्नाति, बद्धाः शुभानुबन्धाः / / 59 / /