________________ खण्ड-१ : श्लोक-५७ साहूणं साहुचरियं, देसविरई च सावगजणाणं / 'अणुमने सव्वेसिं, सम्मत्तं सम्मदिट्ठीणं / / 57 / / साधूनां साधुचरितं च, देशविरतिं च श्रावकजनानाम् / .. अनुमन्ये सर्वेषाम्, सम्यक्त्वं सम्यग्दृष्टीनाम् / / 57 / / अर्हत्त्वं तीर्थकरत्वं योजनप्रमाणवाण्या भविकनिकरप्रतिबोधकत्वं समवसरणादिमहिमोपभोक्तृत्वमित्यादि / उक्तञ्च - "तित्थयरनामकम्मखयट्ठा तहय चेव सा मव्वा / धम्मं कहेइ अरिहा पूर्व वा सोवए तं च" / / ____"अणुलोमहेउ तस्सीलया य जे मावतित्थमेयंत्तु / ____ कुव्वंति पगासंति य ते तित्थयरा हियत्थकरा / / [वि.आ.भा. 1047] इति / . तेषु तीर्थकरेष्वर्हत्सु .तदनुमन्येऽहमिति सम्बन्धः / यञ्च सिद्धत्तं सदा केवलज्ञानोपयुक्तत्वम्, सर्वकर्म-विमुक्तत्वं निरुपमसुखभोक्तृत्वमित्यादि सिद्धेष्वनुमन्ये इति / तथा आचारं ज्ञान-दर्शनचारित्र-तपोवीर्यरूपं पञ्चविधमाचार्येष्वनुमन्ये इति / तथा उपाध्यायकत्वं सिद्धान्ताऽध्यापकत्वमुपाध्यायेष्वनुमन्ये इति / उक्तञ्च - "तेसि नमो. तेसि नमो भावेण पुणो पुणोऽवि तेसि नमो / - अणुवकयपरहियपरा जे नाणं बिंति भव्वाणं" / / [पञ्चवस्तु-१६००] साहूणत्ति साधूनां सामायिकादिविशिष्ट-प्रमत्तादि-पुलाकादि-जिनकल्पिक-प्रतिमाकल्पिकयथालन्द-कल्पिक-परिहारविशुद्धिकस्थितकल्पिकाऽस्थितकल्पिक-कल्पातीत-प्रत्येकबुद्धस्वयंबुद्धबुद्धबोधितभेदानां सुषमादिकालविशेषितानां साधुचरितं चरण-करणादिक्रियाकलापं ज्ञान-दर्शनचारित्रधारित्वं समभावित्वमसहायसहायत्वमित्याद्यनुमन्ये / तथा सम्यक्त्वाणुव्रतैकादशोपासकप्रतिमादिरूपां देशविरतिं च श्रान्ति पचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः, वपन्ति गुणवत् सप्तक्षेत्रेषु धनबीजानि क्षिपन्तीति वाः, किरन्ति क्लिष्टकर्मरजो विक्षिपन्तीति, काः श्राश्च वाश्च काश्च श्रावकास्ते च ते जनाश्च श्रावकजनास्तेषां जनानां श्रावकत्वमनुमन्ये इत्यर्थः / उक्तञ्च - “सम्ममणुव्वय-गुणव्वय-सिक्खावयत्तं उवासगपडिमा / एयाइ देसविरयत्तपालगा सावगा धन्ना" / / [ ] 1. शिवत्वं सदा-डर, ड३, 2. जे एयं दिति जीवाणं मुद्रितपञ्चवस्तुके / 23-24-परि-२ /