________________ 54 चतुःशरणप्रकीर्णकमः श्लोक-५४, 55, 56 अथोपसंहारमाह - जं मण-वय-काएहिं कय-कारिय-अणुमईहिं आयरियं / धम्मविरुद्धमसुद्धं सव्वं गरिहामि तं पावं / / 54 / / यत् मनोवचनकायैः कृतकारितानुमतिभिराचरितम् / धर्मविरुद्धमशुद्धं सर्व गर्हामि तत्पापम् / / 54 / / यत् पापमकृत्यं मनोवाकायैः रागद्वेषमोहाज्ञानहेतुभूतैः कृतकारिताऽनुमतिभिराचरितं विहितं धर्मस्य जिनधर्मस्य विरुद्धं प्रतिकूलं सूत्रनिषिद्धमत एव सदोषं सर्व समस्तमपि तत् पापं गर्हामि अपुनःकरणेनाऽङ्गीकरोमि गुरुसन्निधावालोचयामी इति तात्पर्यार्थः / / 54 / / उक्तो द्वितीयोऽर्थाधिकारः, अधुना तृतीयोऽर्थाऽधिकारः [तं] प्रतिपादयन्नाऽऽह - अह सो दुक्कडगरिहादलिउक्कडदुक्कडो फुडं भणइ / सुकडाणुरायसमुइन्नपुत्रपुलयंकुरकरालो !!55 / / अथ स दुष्कृतगर्हादलितोत्कटदुष्कृतः स्फुटं भणति / सुकृतानुरागसमुदीर्णपुण्यपुलकाङ्कुरकरालः / / 5 / / अथाऽनन्तरं स साधुप्रभृतिको जीवः / कथम्भूतो ? दुष्कृतगर्हया दुश्चरितनिन्दनेन दलितानि चूर्णीकृतानि उत्कटानि दुष्कृतानि येन स दलितोत्कटदुष्कृतः प्रतिहतमहापातकनिकर इत्यर्थः स्फुटं प्रकटं भणति / पुनः कैः गुणैः ? इत्याह सुकृताऽनुरागेण सुचरितबहुमानेन समुत्पन्नाः समुदीर्णाः सञ्जाता वा पुण्यबन्धहेतुत्वात् पुण्याः पवित्राः ये पुलकाङ्कुराः रोमोद्गमविशेषास्तैः करालो भीषणः कर्मवैरिणं प्रतीतिशेष इति गाथार्थः / / 55 / / / यद्भणति तद् गाथाद्वयेनाऽऽह - अरिहत्तं अरिहंतेसु, जं च सिद्धत्तणं च सिद्धेसु / आयारं आयरिएसु, उज्झायत्तं उवज्झाएसु / / 56 / / अर्हत्त्वमर्हत्सु, यञ्च सिद्धत्वं च सिद्धेषु / आचारमाचार्येषु, उपाध्यायत्वमुपाध्यायेषु / / 56 / / 1. पापं कृतं-डर, ड३, 2. मोहाज्ञानैः हेतुभूतैः डर /