________________ खण्ड-१ : श्लोक-५३ सार "जो अवमण्णइ संघं पावो थेवं पमायमचलित्ते / सो अप्पाणं बोलेइ दुक्खमहासागरे भीमे" / / [ ] "सिरि समणसंघ आसायणाए पाविंति जं दुहं जीवा / तं साहिओ समत्थो जइ परि भगवं जिणो होइ" / / [ ] तथा अन्येष्वपि पापेषु अष्टादशसु प्राणातिपातादिषु विषयभूतेषु यत् किमपि पापं जीवव्यपरोपणादि कृतं तदप्यधुना गर्हामीति गाथार्थः / / 52 / / यञ्चोक्तम् - 'अन्नेसु य पावेसुं' तदेव व्यक्तीकुर्वन्नाऽऽह - अनेसु य जीवेसु य मित्ती-करुणाइ गोयरेसु कयं / परियावणाइदुक्खं इण्हि गरिहामि तं पावं / / 53 / / / अन्येष्वपि जीवेषु च मैत्रीकरुणादिगोचरेषु कृतम् / . परितापनादिदुःखमिदानी गर्हामि तत्पापम् / / 53 / / / : अन्येष्वपि जीवेषु तीर्थकरादिव्यतिरिक्तेषु-तद्यथा पृथिव्यप्तेजोवायुसाधारणवनस्पतिषु सूक्ष्मबादरपर्याप्त झअपर्याप्तट भेदेन चतुर्विधेषु सर्वमीलने विंशतिषु तथा प्रत्येकवनस्पति-द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रियेषु पर्याप्ताऽपर्याप्तभेदेनाष्टसु / तिर्यग्पञ्चेन्द्रियेषु जलचर-स्थलचर-खचर-उरपरिसर्पभुजपरिसपेषु पञ्चसु संश्यसंज्ञिभेदेन दशसु / पर्याप्तादिना विंशतिसङ्ख्येषु / तथा नारकेषु पृथ्वीभेदेन सप्तसु पर्याप्तादिना चतुर्दशसु तथा कर्माकर्मभूमिजाऽन्तरद्वीपजमनुजेषु पञ्चदशत्रिंशत्षट्पञ्चाशत्सङ्ख्येषु पर्याप्ताऽपर्याप्तभेदेन द्विरुत्तरशतद्वयमानेषु संज्ञिमनुष्येषु एतद्वान्तादिभवाऽपर्याप्तेषु असंज्ञिमनुष्येषु एकोत्तरशतमानेषु, दशविधभवनपतिषु, पञ्चदशविधेषु परमाधार्मिकयुक्तेषु पर्याप्ताऽपर्याप्ताऽऽदिना षट्सङ्ख्येषु .. नवलोकान्तिकेषु पर्याप्तादिनाऽष्टादशमानेषु / एतेषु जीवेषु पृथिव्यादिषु लोकान्तिकपर्यन्तेषु सर्वेषु सर्वसङ्ख्यया त्रिषष्ट्यधिकपञ्चशतसङ्ख्येषु / कथम्भूतेषु ? मैत्रीकारुण्यादिगोचरेषु मैत्री-कारुण्य-माध्यस्थ्य(स्य) विधेयतया गोचरो विषयो येषां ते तथा तेषु कृतं निष्पादितं 'परियावणा' इति परितापनादिदुःखम्, परितापनादिमध्यपदग्रहणात् तुलादण्डन्यायेनाऽभिहतादिभिर्दशभिस्तेषु जीवेषु यत् किमपि दुःखं कष्टं कृतमिदानीं तदपि पापं गर्हामि आलोचयामि इति यावत् इति गाथार्थः / / 53 / / 1. पर्याप्तिना-डर, ड३, 2. द्वीपमनुजेषु-डर, ड३ /