________________ 52 चतुःशरणप्रकीर्णकम्ः श्लोक-५२ यद् रचितम् / तत्र श्रुतस्य द्वादशाङ्गरूपस्य तदध्यापकाध्येतॄणां च, यत् प्रत्यनीकतया पापं रचितम् 'अज्ञानमेव शोभन मिति भणता अशकटापित्रेव पूर्वभवे ज्ञानिनां चेव इत्युक्तेरिति / धर्मप्रत्यनीकता कविला ! इत्थं पि इहयंपी ति भणता मरीचेरिव / तथा गुणरत्नपात्रभूतः सत्त्वसमूहः सङ्घ / उक्तञ्च - "सव्वो वि नाण-दसण-चरणगुणविभूसियाण समणाणं / समुदायो पुण संघो गुणसमुदाऊ त्ति काऊण" / / [ ] किञ्च - "तव नियम-नाणवेलो जयइ सयनाण-विमलपुन्नजलो / हेउसयलविउलवेगो संघ समुद्दो गुणविसालो" / / [ ] एवंविधस्य सङ्घस्य प्रत्यनीकता सगरसुत. जिष्णुकुमारादिजीवपूर्वभवचौराणामिव सम्मैतशैलशिखरं प्रति तीर्थयात्रायां गच्छतः सङ्घस्य विलोडकानाम्, [विलोपकानाम्] साधुप्रत्यनीकता गजसुकुमारं प्रति सोमिलस्येव / . तथा सर्वेषां श्रुतधर्माऽर्हदाऽऽचार्योपाध्यायसाधूनां नमुचि-दत्त-गोशालकादयः प्रत्यनीकतायां ज्ञेयाः / किञ्च - . "आणाए अवस॒तं जो अवहिज जिणवरिंदाणं / , तित्थयरस्स सुयस्स य संघस्स य पञ्चणीओ सो" / / [दर्शनशुद्धि-१९५] तथा किञ्च - "गुणीण अणत्थं जो मोहविमोहिओ नरो कुणइ / सोऽणत्थजलसमुद्दे अप्पाणं खिवइ धुवमेयं" / / तथा विशेषेण सङ्घप्रत्यनीकतायां दोषो दर्श्यते तथाहि - "पत्तो ताडण-बंधण-अवमाण जणिय विविहदुक्खाई / संघावमाणणा तरुवइस्स कुसुमुग्गमो एसो" / / [ ] "नरय तिरिय कुमाणुस-कुदेव-गइ गमण-संकडापडिओ / / जमणंतभवे भमिहिसि तं पुण विरसं फलं होही" / / [ ]