________________ खण्ड-१ : श्लोक-५२ सर्वप्राण-भूत-जीव-सत्त्वानां यथा तैः सूक्ष्मैस्रसस्थावरैर्व्यक्तवेदनत्वेन हतैरप्यल्प एव कर्मबन्धो भवतीत्यादि / कालस्य यथा - किं कालग्रहणेन यथाऽवसरं प्रत्युत्पेक्षणादिक्रियया वेत्यादि / / श्रुतस्य यथा - "को आउरस्स कालो मइलंबर धोवणे य को कालो / __जइ मुक्खहेउ नाणं कोऽकालो तस्स कालो वा" / / [ ] इत्यादि / श्रुतदेवताया यथा - नास्ति सा, अकिञ्चित्करी वा कामगर्दभीत्यादि / वाचनाऽऽचार्यस्य यथा - स निर्दुःखसुखो बहून् वारान् वन्दनं दापयति इत्यादि / एवं 'जं वाइद्धं' इत्यादिष्वपि ज्ञेयम् - "एक वा चउहिं ठाणेहिं जीवा किब्बिसियत्ताए कम्मं पकरिति तं अरहंताणं अवनं वयमाणेहिं अरहंतपन्नत्तस्स धम्मस्स अवनं वयमाणे आयरिय-उवज्झायाणं अवनं वयमाणे चाउवनस्स संघस्स अवनं वयमाणे इति" / [ ] तथा अन्यदपि मिथ्यात्वमोहितमतिनां परदेव-परतीर्थ-परधर्म-कुशास्त्र-देवकुल-वापी-कूपाऽऽरामसरःप्रभृतिविरचितं कृतं कारितमनुमतं वाऽतीताऽनागतवर्तमानकाले इदानीमवगतपरमार्थः सन् तत्पापं गर्हामि निन्दामि गुरुसमक्षमालोचयामि, गुरुभिर्दत्तं तपःकर्म सम्यक् प्रतिपद्येऽहमिति गाथार्थः / / 51 / / . अभिहितार्थमपि पुनः प्रपञ्चयन्नाऽऽह - सुय-धम्म-संघ-साहुसु पावं पडिणीययाए जं रइयं / ___ अनेसु य पावेसुं इण्डिं गरिहामि तं पावं / / 52 / / .. श्रुत-धर्म-सङ्घसाधुषु पापं प्रत्यनीकतया यद्रचितम् / अन्येषु च पापेष्विदानी गर्हामि तत् पापम् / / 52 / / * श्रुतं च धर्मश्च संघश्च साधवश्च श्रुत-धर्म-सङ्घ-साधवस्तेषु पापं प्रत्यनीकतया विद्विष्टभावेन 1. चातीता-5३ /