________________ 50 चतुःशरणप्रकीर्णकम्ः श्लोक-५१ 'अवन्नवयणं जं' ति अवर्णवादवचनमसदोषकथनं यदज्ञानेन जिनशासनबाह्येन तदर्थाऽवबोधविवेकशून्येन वा उक्तमिति शेषः / तत्रार्हतामवर्णवादो यथा न सन्त्यर्हन्तः, सन्तो वा ज्ञानत्रयेण भोगविपाकं जानन्तोऽपि कथं गृहवासे भोगान् भुञ्जन्ति ? केवलोत्पत्तौ च कथं समवसरणादिविभूतिं व्रतस्था अप्युपजीवन्ति ? किं चेष्टाऽनिष्टविषयेन तज्ज्ञानेन ? उक्तं च - "सर्वं पश्यतु वा मा वा इष्टमर्थं तु पश्यतु / / कीटसङ्ख्यापरिज्ञानं तस्य न क्वोपयुज्यते" / / [स्याद्वादमञ्जरी-१ वृत्तौ]इत्यादि / सिद्धाऽवर्णवादो यथा - न सन्ति सिद्धा निश्चेष्टाश्च, उपयोगे सति रागद्वेषसद्भावात्, कथं वा केवल-ज्ञानदर्शनयोस्तेषां युगपदुपयोगो नास्ति ? अशरीरिणां कथं निरुपमं सुखम् ? इत्यादि / आचार्याऽवर्णवादो यथा "डहरो अकुलीण त्ति बहुमोहो दमगमंदबुद्धि त्ति / अवि अप्पलाभलद्धी सीसो परिभवइ आयरियं" / / [ ] कथं वा ते स्वयं भिक्षायां न हिण्डन्ति ? तथा कथं परेषां वैयावृत्याद्युपदिशति ? शक्तिमन्तोप्यात्मना न कुर्वन्तीत्यादि / / उपाध्यायानां यथाप्रमाणानाममहता अध्यापने त्वरितगतयो विरूपने पश्चात्ताप इत्यादि / साधूनां यथा - परस्परसारणशिक्षादिभिः क्रोधादिकर्मबन्धवर्धका इत्यादि / साध्वीनां यथा कलहकारिण्योबिहूपकरणाः श्रमणोपद्रवकारिण्य इत्यादि / श्रावक-श्राविकाणां यथा - आरम्भकटमद्देवतां कुतस्तेषां सुगतिरित्यादि ? / देव-देवीनां विकुर्वणां विना ते न किमपि कर्तुं समर्थाः कामगृहाश्च अनुत्तरवासिनोऽपि निश्चेष्टाः सामर्थ्ययोगेऽपि किमिति प्रवचनप्रभावनां न कुर्वन्तीत्यादि / एवमिहलोकपरलोकयोरपि विपरीतप्ररूपणाऽसदोषापादनेन ज्ञेया / केवलिप्रज्ञप्तधर्मस्य श्रुतचारित्ररूपस्य यथा - "पाययभासनिबद्धं को वा जाणइ पणीय केणेदं / किं वा चरणेणं तद् वाणेण विणेह भवइ त्ति" / / [ ] इत्यादि / . सदेवमनुजाऽसुरलोकस्याऽन्यथा प्ररूपणम् (यथा) सप्त द्वीपाः, सप्त समुद्राः, प्रजापतिकृतं सर्वमित्यादि /