________________ खण्ड-१ : श्लोक-५१ इहमविकमन्यभविकं मिथ्यात्वप्रवर्त्तनं यदधिकरणम् / . जिनप्रवचनप्रतिक्रुष्टं दुष्टं गर्हामि तत्पापम् / / 50 / / इहाऽस्मिन् भवे यत् कृतं तदिहभविकम्, अन्यस्मिन् भवे भवमन्यभविकमतीतभविष्यद्भवसम्भवमित्यर्थः, मिथ्यात्वप्रवर्त्तनं कुतीर्थिकदानसन्मानम्, तद्देवाऽर्चनम्, तञ्चैत्यकारापणाद्यधिकरणमन्यदपि चाधिकरणं भवन-वना-ऽऽराम-तरु-पुर-प्राकारादि-खड्ग-धनुरादिशस्त्रा-ऽग्नि-यन्त्र-गन्त्री-हलोदूखलमुसलादि तथाऽन्यञ्च यत् किमपि जिनप्रवचने प्रतिक्रुष्टं निराकृतं भवतीति हेतुत्वात् दुष्टं तत् पापं गर्हामि जुगुप्सामीत्यर्थः / / 50 / / उक्तमेवाऽर्थं विशेषेणाऽऽह - मिच्छत्ततमंधेणं अरिहंताइसु अवनवयणं जं / अन्नाणेण विरइयं इण्डिं गरिहामि तं पावं / / 51 / / मिथ्यात्वतमोऽन्धेनार्हदादिष्ववर्णवचनं यत् / अज्ञानेन विरचितमिदानी गर्हामि तत्पापम् / / 51 / / तत्राऽभिग्रहिका-ऽनाभिग्रहिका-ऽभिनिवेशिक-सांशयिका-ऽनाभोगिकभेदात् पञ्चधा मिथ्यात्वम्, दशधा च तथाहि - दसविहे मिच्छत्ते पन्नत्ते तं - १-अहम्मे धम्मसन्ना, २-धम्मे अहम्मसन्ना, ३-उम्मग्गे मग्गसन्ना, ४-मग्गे विमग्गसन्ना, ५-अजीवेसु जीवसन्ना, ६-जीवेसु अजीवसन्ना, ७-असाहूसु साहुसन्ना, ८-साहूसु असाहुसन्ना, ९-अमुत्तेसु मुत्तसना, १०-मुत्तेसु अमुत्तसन्ना [श्री स्थानाङ्गसूत्र-७३४] इति, मिथ्यात्वमेव तमोऽन्धकार, तद्रूपं पातकं वा, तेन मिथ्यात्वतमोऽन्धेन मिथ्यात्वशास्त्रोऽपहतभावचक्षुषा सता जीवेनाऽहंदादिषु अर्हत्-सिद्धा-ऽऽचार्योपाध्यायादिषु भक्ति-पूजा-बहुमानाद्यर्हेषु, उक्तञ्च - तित्थयर धम्म आयरिय वायगो थेर कुल गण संघे संभोइय किरियाए मइनाणाईण तहा चेव / / [दश. निर्यु.] कायव्वा पुण भत्ती बहुमाणो तह वनवाओ य / अरहंतमाइयाणं केवलनाणाऽवसाणाणं / / 1. उमग्गसन्ना-ल, डर, ड३, 2. अपुन्नेसु पुन्नसन्ना, पुन्नेसु अपुन्नसन्ना-ल, डर, ड३, असुत्तेसु सुत्तसन्ना, सुत्तेसु असुत्तसन्ना-ड, 22-परि-२ /