SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ चतुःशरणप्रकीर्णकम् : श्लोक-४९, 50 इत्यादिका प्रसिद्धा एव, पञ्चधा एव 21"पंच निहीओ पन्नत्ताओ तं (जहा) पुत्तनिही, मित्तनिही, सिप्पनिही, धणनिही, धननिही" ति / [स्था. सू. 448] तदत्र निधिरप्युक्तविशेषेण एव / तथाहि - 'भास्वरं' दीप्तिमत् ‘सुवर्णं' कनकम्, 'सुंदराणि' रुचिराणि 'रत्नानि' पद्मरागादीनि 'अलङ्काराहाराद्याभरणविशेषास्तैः, गौरवः सम्पूर्णता, तेन च 'महा?' बहुमूल्यः, अत एव दुर्गतस्य दरिद्रस्य भावो दौर्गत्यं दारिद्र्यं तद् हरतीति दौर्गत्यहरः दारिद्र्यापहारकृदित्यर्थः, एवंविधो यो निधिः, तत्कल्पं जिनोपदिष्टं धर्म वन्दे नमस्कुर्वे इति गाथार्थः / / 48 / / उक्तं चतुर्थं शरणम्, तद्भणितेन चाऽभिहितोऽस्याऽध्ययनस्य स . प्रथमोऽर्थाधिकारः अथ द्वितीयाऽर्थाधिकारं बिभणिषुराह - . . चउसरणगमणसंचियसुचरियरोमंचअंचियसरीरो / / कयदुक्कडगरिहाऽसुहकम्मक्खयकंखिरो भणइ / / 49 / / चतुःशरणगमनसञ्चितसुचरितरोमाञ्चाञ्चितशरीरः / कृतदुष्कृतगर्हयाऽशुभकर्मक्षयकाङ्क्षी भणति / / 49 / / चतुःशरणगमनेन चतुःशरणाङ्गीकरणेन सञ्चितं राशीकृतं यत् सुचरितं पुण्यं, तेन योऽसौ रोमाञ्चः सोल्लासस्तेनाञ्चितं भूषितं शरीरं यस्य स तथा धर्मशरणगमनाऽर्जितसुकृतवशात् कण्टकितगात्र इत्यर्थः, तथा कृतानि विहितानि यानि दुष्कृतानि अशुभाचारास्तेषां गर्हा गुरुसमक्षं 'हा दुटु कयं' इत्यादि निन्दा, तया कृतदुष्कृतगर्हया, योऽसावशुभकर्मक्षयः पापकर्मापगमस्तत्र काङ्क्षिर आकाङ्क्षावान् भणति, दुष्कृतगर्हातो यः पापापगमो भवति, तमात्मानं समभिलषन्नेवं वक्ष्यमाणं वदतीत्यर्थः / / 49 / / यञ्च भणति तदाह - इहभवियमनभवियं मिच्छत्तपवत्तणं जमहिगरणं / जिणपवयणपडिकुटुं दुटुं गरिहामि तं पावं / / 50 / / . 1. सम्पूर्णभावेन च-डर, ड३, 2. तद्भणनेन-डर, ड३, 3. समालिखन्नेवं-डर, ड३, 21-परि-२ /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy