________________ खण्ड-१ : श्लोक-४८ सुन्दररचनाऽलङ्कारः, गौरवहेतुत्वाद् गौरवम्, महान| माहात्म्यविशेषो यस्य स महाघस्ततो द्वन्द्वः, श्रुतधर्मपक्षेषु - 'सुयधम्मो सज्झाओ' इति वचनात् - श्रुतं द्वादशाङ्गम्, तत्र भास्वरज्ञानिभिः केवलिभिरुक्तत्वात् भास्वरम, शोभना वर्णा अक्षराणि यत्र तत् सुवर्णम्, ततः सुवर्णानामक्षराणां या सुन्दरा रचना पदपङ्क्त्या विरचनम्, तस्या द्वात्रिंशत्सूत्रदोषपरिहारेणऽष्टगुणालङ्करणेन वाऽलङ्कारो विभूषणं सुवर्णसुन्दररचनाऽलङ्कारस्तस्माञ्च गौरवो गुरुत्वम्, तथा एकैकस्याऽपि सूत्रस्यानन्तार्थत्वात्, यदाह - "सव्वनइणं जा हुन्ज वालुया सव्वोदहीणं जं उदयं / इत्तो वि अणंतगुणो अत्थो एगस्स सुत्तस्स" / / [कल्पसूत्र. वृ.] ततो महानर्घः आधिक्यपूजाऽतिशयो वा यस्य, तथाहि - सव्वे वि य सिद्धता सदव्वरयणासया स तिउल्लुका / जिणवयणस्स भगवओ न तुल्ल तं अणग्धेयं" / / [आव.हारि.व.] किञ्च - - "जीवाइवत्थुचिंतण कोसल्लगुणेणऽणन्नसरिसेण / सेयवयणेहिं अजियं जिणिंदवयणं महायसयं" / / [आव.हारि..] यं (ज) यं (यद्) "सव्वसुरासुरकिंनरवंतरजोइससुथुइयं नाणं / .. तेणेह गणहराणं छुहिंति चुन्ने सुरिंदा वि" / / [ध्यान.श.वृ. 45] ततो भास्वरसुवर्णा सुन्दररचना गौरवं च महाभुं च भास्वरसुवर्णसुन्दररचनालङ्कारगौरवमहाघम् / अतश्चोपमीयते निधिमिव महानिधानमिवेत्यर्थः / ... किंविशिष्टम् ? दुष्टा गतिः दुर्गतिः, कुदेवत्व-कुमानुषत्व-तिर्यग्-नरकलक्षणा, तस्याः दुर्गते वो दौर्गत्यम्, श्रुतधर्मपक्षे त्वज्ञानत्वं तद्धरतीति, तत्र निधीयन्ते पोष्यन्तेऽर्था येष्विति निधयस्ते च नवधा पञ्चधा च, नवधा - 20"नेसप्पे पंडुयए पिंगले सव्वरयण महापउमे / काले अ महाकाले माणवग महानिही संखे" || [स्था. सू. 673-1] 1. वचना-ल, ड२, ड३, 2. भास्वरं-ड१, 3. त्वज्ञानं-डर, ड३, 20-परि-२ /