________________ 46 चतुःशरणप्रकीर्णकम् : श्लोक-४८ नरकगतिगमनरोधं गुणसन्दोहं प्रवादिनिःक्षोभम् / निहतमन्मथयोधं धर्म शरणं प्रपन्नोऽहम् / / 47 / / पापकारिनरान् कायन्त्याह्वयन्तीति नरकाः, रत्नप्रभादिषु सीमन्तकाद्यास्तत्र गमनं तद् रुणद्धि निवारयति नरकगतिगमनरोधस्तम्, तथा गुणानां क्षान्त्यादीनां च सन्दोहः समुदायो यत्र स तथा तं तथा प्रकर्षवन्तो वादिनस्त्रिषष्ट्याधिकत्रिशतीसङ्घयोपेताः / उक्तञ्च - "असियसयं किरियाणं अकिरियावाईण होइ चुलसीई / __ अन्नाणी सत्तट्ठी वेणइयाणं च बत्तीसं" / / [श्रीआचा०श्रु०१ अध्य०१ वृ०] 'निर्' शब्दस्य निषेधार्थत्वात्, तैः प्रवादिभिर्निर्न क्षोभ्यत इति प्रवादिनिःक्षोभ्यस्तम्, अथवा क्षोभणं क्षोभः, प्रवादिभ्यो निर्गतो रहितः क्षोभश्चालनं यस्य स, तथा सर्वज्ञदेशितत्वात् अत्यद्भूतमहापुण्यबन्धुबन्धुरत्वाच्च / यदाह - "समत्तदेसविरयाण समणाण सावगाण सुविहियाणं / तेसिं परपासंडा सयसं पि कलं न अग्घंति" / / [ अतस्तं धर्मं पाखण्डिभिरखण्ड्यशासनमित्यर्थः / तथा नवगुप्तिरचनाचिरकवचकवचितत्वेन निर्जितः, प्रतिहतो नाशं नीतो मन्मथयोधः कामसुभटो येन स तथा, तं धर्म शरणं प्रपद्येऽहमिति / / 47 / / इति कृतधर्मशरणः, पुनस्तस्यैव चारित्रश्रुतरुपस्य निध्युपमया नमस्कारमाह / भासुरसुवप्नसुंदररयणालंकारगारवमहग्धं / निहिमिव दोगञ्चहरं धम्मं जिणदेसियं वंदे / / 48 / / भास्वरसुवर्णसुन्दररचनालङ्कारगौरवमहाघम् / / निधिमिव दौर्गत्यहरं धर्म जिनदेशितं वन्दे / / 48 / / भास्वरगतिहेतुत्वात् चारित्रधर्मस्य, 'भास्वरः' शोभनो वर्णः श्लाघा - 17 “देवा वि तं नमसंति जस्स धम्मे सया मणो" / / [दश वै० अ०१ - 1] इत्यादि गुणोत्कीर्तनरूपो यस्मात् स सुवर्णः, तथा सुन्दरा मनोज्ञा इतिकर्तव्यक्रियाकलापैश्चित्रा 'इच्छामिच्छा' इत्यादिरूपा या रचना परिकल्पना, तस्या यथाऽवसरमलङ्करणादलङ्कारः, 1. नरकगमन-ड३ 2. वयणा-ल, 3. भास्करः ल, ड२, ड३, 4. धम्मो मंगलमु...दशवै-१-१, 19-परि-२ /