________________ खण्ड-१ : श्लोक-४६, 47 इत्यर्थः / तं किं बहुमतमिति चेत् ? 'प्रक्रमाऽऽयातं जिनधर्ममेव, न केवलं जिनधर्मम, जिनमतं च प्रवचनं द्वादशाङ्गमित्यर्थः, तदप्येवंगुणमेव, तत्र कालत्रयेऽपि विदेहेषु, तथा - "सम्मत्तस्स सुयस्स य, पडिवत्ती छव्विहंमि कालम्मि" / [वि.आ.भा.गा. 2708] इत्युक्तेश्च, सदैव तस्याऽपि प्राप्तेस्तदपि न मृतमिति शाश्वतमित्यर्थः, एवं शेषाण्यपि विशेषणानि सहेतुकानि योज्यानि, एतद्गुणसुन्दरं जिनधर्मं जिनमतं च शरणत्वेनाहमाश्रित इति तात्पर्यार्थः / / 45 / / जिनधर्मभावितमतेश्च कामविरक्तता भवतीत्यतः प्राह - पसमियकामपमोहं दिट्ठाऽदिढेसु न कलियविरोहं / सिवसुहफलयममोहं धम्म सरणं पवनो हं / / 46 / / प्रशमितकामप्रमोहं दृष्टादृष्टेषु न कलितविरोधम् / शिवसुखफलदममोघं धर्म शरणं प्रपन्नोऽहम् / / 46 / / प्रशमितः, 8"सल्लं कामा, 'विसं कामा कामा आसीविसोवमा / कामे पत्थेमाणा अकामा जंति दुग्गइं" / / [श्री उत्त०सूत्र अध्य. 9, 53] इत्यादि तद्विपाकवर्णनेनोपशमं नीतः कामस्य प्रकृष्टो मोह उन्मादो येन स तथा, निवारितकामोद्रेक इत्यर्थस्तम्, तथा दृष्टाश्चादृष्टाश्च द्वन्द्वः दृष्टादृष्टा जीवाः, तत्र दृष्टा बादरैकेन्द्रियद्वीन्द्रियादयः दृष्टिविषयत्वात् तेषाम्, अदृष्टाः सूक्ष्मपनकसूक्ष्मैकेन्द्रियाः सर्वलोकवर्तिनोऽतिशयज्ञानिगोचराः; तेषु दृष्टादृष्टेषु जीवेषु न कलितो न कृतो विरोधो विपरीतप्ररूपणारूपो येन स तथा, तं केवलिप्रज्ञप्तत्वात् यथावस्थितस्वरूपाऽऽवेदकमित्यर्थः, तथा शिवसुखमेव फलं तद्ददातीति शिवसुखफलदः तं शिवसुखफलदम्, अत एव न मोघोऽमोघोऽवन्ध्यः सार्थक इत्यर्थः, तमेवम्प्रकारं धर्म शरणमहं प्रपन्न इति / / 46 / / . पूर्वं सिद्धिसुखफलदमित्युक्तम्, तदवाप्तौ च नरकादिगतिरोधो भवति, अत आह - नरयगइगमणरोहं गुणसंदोहं पवाइनिक्खोहं / निहणियवम्महजोहं धम्म सरणं पवनो हं / / 47 / / 1. प्रक्रमादायातम्-ड२, ड३, 17-18-परि-२ /