________________ चतुःशरणप्रकीर्णकम् : श्लोक-४४, 45 निद्दलियकलुसकम्मो कयसुहजम्मो खलीकयकुहम्मो / पमुहपरिणामरम्मो सरणं मह होउ जिणधम्मो / / 44 / / निर्दलितकलुषकर्मा कृतशुभजन्मा खलीकृतकुधर्मः / . प्रमुखपरिणामरम्यः शरणं मे भवतु जिनधर्मः / / 44 / / निर्दलितानि विदारितानि तत्कर्तृजनेभ्यः कलुषाणि मलिनानि कर्माणि येन धर्मेण स, तथा निधीतसर्वपाप इत्यर्थः, यत एव निर्दलिताऽशुभकर्मा, अत एव कृतं शुभं कर्म जन्म वा, सेवकजनेभ्यो गणधरतीर्थकरत्वादिपदवीप्राप्तिलक्षणं येन स कृतशुभकर्मा झ्कृतशुभट जन्मा वा, यत एव कृतशुभजन्मा अत एव खलीकृतः शत्रुवनिर्धाटितो निःसारितः कुधर्मो मिथ्याधर्मः, सम्यक्त्वतत्त्ववासितेभ्यो येन स तथा, मिथ्यादृष्टिधर्मस्यारम्भेऽप्यादावपि पञ्चाग्नितपःप्रभृत्यादेर्महाकष्टहेतुत्वेनाऽसुन्दरत्वात्, परिणामे च मिथ्यात्वरुपत्वेन दुर्गतिमूलत्वात् / अयं तु जिनधर्मः, प्रमुखे आदाविहलोकेऽपि धम्मिलादीनामिव, परिपाकप्राप्तैर्भवान्तरे दामनकादीनामिव रम्यो मनोज्ञः, किञ्च - "धणओ धणत्थियाणं कामत्थिणं च सव्वकामकरो / सग्गापवग्गसंगमहेऊ जिणदेसियो धम्मो" / / [ ] स एवंविधो धर्मो मम शरणं भवतु / / 44 / / कालत्तए वि न मयं जम्मण-जर-मरण-वाहिसयसमयं / अमयं व बहुमयं जिणमयं च सरणं पवनो हं / / 45 / / ... कालत्रयेऽपि न मृतं जन्मजरामरणव्याधिशतशमकम् [सुमृतम्।। अमृतमिव बहुमतं जिनमतं च शरणं प्रपन्नोऽहम् / / 45 / / कालत्रयेऽतीता-ऽनागत-वर्तमानरुपे न मृतो न विनष्टस्तं न मृतम्, विदेहेषु नैरन्तर्येण 'तत् सद्भावात्, कालत्रयेऽपि धर्मो विद्यत एवेत्यर्थः, तथा जन्म च जरा च मरणं च व्याधयश्च जन्म-जरामरण-व्याधयस्तेषां शतानि, सुष्टु अतिशयेन मृतानि निष्ठितानि विनष्टानि यस्मात् स तथा तम्, अथवा जन्म-जरा-मरण-व्याधिशतानां शमकः, सिद्धिप्रदानेन तन्निवारकस्तं तथा अमयं व त्ति चारुवर्ण-गन्धरसोपेतं वर्ण-बल-सौभाग्य-पुष्टिजननम्, सर्वरोगनाशनमनेकगुणसम्पन्नममृतम्, तदिव सकललोक-स्याऽऽनन्द-तुष्टि-पुष्टिजनकत्वाद् बहुमतः, सर्वस्याऽपि. अतिशयेनाऽभीष्ट 1. कलुषितानि-ड२ 2. तत्र-डर, 3. सिद्धपदप्र-डर, ड३ /