________________ चतुःशरणप्रकीर्णकम् : श्लोक-४२ तद्वशेन रोमाञ्चप्रपञ्चो रोमोद्धर्ष उत्कर्षः स एव कञ्चकश्चोलकस्तेनाञ्चिता विभूषिता तनुः शरीरं यस्य स प्रहर्षरोमाञ्चप्रपञ्चकञ्चकाश्चिततनुः प्रमोदपूरिताङ्गः सन्निदं वक्ष्यमाणं भणत्यभिदधति / / 41 / / यच्च ब्रूते तदाह - . पवरसुकएहिं पत्तं पत्तेहि वि नवरि केहि वि न पत्तं / तं केवलिपन्नत्तं धम्म सरणं पवनो हं / / 42 / / प्रवरसुकृतैः प्राप्तं पात्रैरपि पुनः कैश्चिन्न प्राप्तम् / ... तं केवलिप्रज्ञप्तं धर्म शरणं प्रपन्नोऽहम् / / 42 / / प्रवरसुकृतैर्विशिष्टपुण्यैः प्राप्तं लब्धं सम्यक्त्व-देशविरति-सर्वविरतिरूपं जिनप्रणीतं धर्ममिति सम्बन्धः, यतो जीवस्याऽनादिभवाऽलभ्यस्तैर्मिथ्यात्वादिभिर्हेतुभिः सदैवाऽऽवृत्तत्वेन तत्प्राप्तेरतिशयेन दुर्लभत्वात् / यदाह - 13 "अंतिमकोडाकोडीए सव्वकम्माणमाउवजाणं / पलियासंखिज्जइमे भागे खीणे हवइ गंठी" / / [वि. आ. भा. 1194] 14"अपव्वेण तिपुंजं मिच्छत्तं कुणइ कुद्दवोवमया / . अनियट्टीकरणेण उ सो सम्मइंसणं लहइ" / / [वि. आ. भा. 1218] 15 "सम्मत्तम्मि य लद्धे, पलियपुहत्तेण सावओ हुन्जा , चरणोवसमखयाणं, सागरसंखंतरा हुंति" / / [वि. आ. भा. 1222] यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धम्, तन्मध्यात् .पल्योपमपृथक्त्वलक्षणे स्थितिखण्डे क्षपिते देशविरतो भवेत्, ततोऽपि सङ्ख्यातेषु सागरेषु क्षपितेषु चारित्रमित्यादि कियत्सु भवेष्वेवं लाभ इत्याह - ०"एवं अपरिवडिए सम्मत्ते देव-मणुय-जम्मेसु" / ___ संसरणं कुर्वतोऽन्योन्यमनुजभवे देशविरत्यादिलाभः / "अन्नयरसेढिवजं एगभवेणेव सव्वाई" / / [वि.आ.भा. 1223] तीव्रशुभपरिणामवशात्, अतोऽनल्पपुण्यैरवाप्यत इत्यर्थः / किञ्च, [मालिनीवृत्तम्] 1. देशविरतिर्भवेत्-डर, ड३, 13, 14, 15, 16-परि-२ /