________________ खण्ड-१ : श्लोक-४०, 41 __पूर्वं 'आयरिय-उवज्झाया' इत्यनेन यद्यप्याचार्यादयः शरणत्वेनऽऽश्रितास्तथाऽपि साधुभ्यो ज्येष्ठपदवर्तिनस्ते कथं तद् ग्रहणेन गृह्यन्ते ? इत्यत्र यो वितर्कस्तस्यापनोदाय आह - साहुत्तसुट्ठिया जं आयरियाई तओ य ते साहू / साहुभणिएण गहिया ते तम्हा साहुणो सरणं / / 40 / / साधुत्वसुस्थिता यदाचार्यादयः ततश्च ते साधवः / साधुभणितेन गृहीताः तस्मात् ते साधवः शरणम् / / 40 / / साधुत्वे साधुस्वरुपे समभावे परसाहाय्य-परोपकारलक्षणे सुष्टु अतिशयेन स्थिता अध्यवसिता व्यवस्थिता तद्हेतोराचार्यादय आचार्योपाध्याय-प्रवर्तक-स्थविर-गणावच्छेदिनस्ते पञ्चाऽपि साधवस्तकार्यकरणात् साधुभणितेन साधुसत्कोच्चारेण गृहीता ग्रहणमागतास्तस्मात् ते सर्वेऽत्राधिकारोक्तगुणगरिष्ठाः, अतीताऽनागतवर्तमानकालभाविनो, अतीतऽनागतयोरनन्ता वर्तमानोत्कृष्टकाले नवकोटीसहस्रमाना, जघन्ये तु कोटीसहस्रद्वितयप्रमाणाः, उक्तञ्च - _ नवकोडिसहस्साई मुणीण उक्कोसयम्मि कालम्मि / - दुनि य कोडिसहस्से जहन्नकालम्मि वंदामि" / / [ ] ते साधवो मम शरणं भवेयुरिति तात्पर्यार्थः / / 40 / / उक्तं तृतीयं शरणम्, अथ चतुर्थशरणप्रतिपादनाय आह - पडिवनसाहुसरणो सरणं काउं पुणो वि जिणधम्मं / पहरिसरोमंचपवंचकंचुचियतणु भणइ / / 41 / / प्रतिपन्नसाधुशरणः शरणं कर्तुं पुनरपि जिनधर्मम् / प्रहर्षरोमाञ्चप्रपञ्चकञ्चकाञ्चिततनुर्भणति / / 4 / / स साधु-साध्वी-श्रावक-श्राविकाऽन्यतमो जीवः प्रतिपन्नसाधुशरणोऽङ्गीकृतमुनिशरणः, पुनरथशब्दार्थो भिन्नक्रमष्टा, ततष्टा पुनरथानन्तरं जिनधर्मं शरणं कर्तुं प्रतिपत्तुमाश्रयितुमिच्छनित्यध्याहारार्थम् / किं विशिष्टोऽसावित्याह - पहरिस त्ति तत्र वदनविकारादिचिह्नगम्यमानसः प्रीतिविशेषो हर्षः, प्रकृष्टो हर्षः प्रहर्षः, 1. समभाव-परसाहाय्य-ड३, 2. भवन्तु इति-ल, डर, 3. चतुर्थं शरणं-ड२ /