________________ खण्ड-१ : श्लोक-३८ मिल्लिता अपास्ता विषया शब्दाद्याः, कषायाः क्रोधाद्याः यैस्ते तथा, विषयकषायरहिता इत्यर्थः, तथा गृहगृहिण्योः सङ्गः सम्बन्धः, तस्माद् यः सुखास्वादः सुखलेश्याविशेषः, उज्झितः परिहतो यैस्ते तथा निष्परिग्रहा निर्जीगीषवश्चेत्यर्थः / तथा न कलितौ न गणितौ न आश्रितौ हर्षविषादौ प्रमोद-वैमनस्ये यैस्ते, तथा समध्यानव्यवस्थितत्वाद् / यदाह - "वंदिज्जमाणा न समुक्कसंति हीलिज्जमाणा न समुज्जलंति / / दंतेण चित्तेण चरन्ति धीरा मुणी समुग्घाइयरागदोसा" / / [ ] तथा विधृतानि श्रोतांसि आश्रवद्वारलक्षणानि यैर्यदिवा विधृतः क्षिप्तः शोकः चित्तखेदो यैस्ते तथा विधृता असंयमस्थाना गतशोका इत्यर्थः / ते साधवो मम शरणं स्युरित्यर्थः / / 37 / / हिंसाइदोससुन्ना कयकारुन्ना सयंभुरूप्पना / अजरामरपह[बहु]खुन्ना साहू सरणं सुकयपुना / / 38 / / हिंसादिदोषशून्याः कृतकारुण्याः स्वयम्भूरुक्प्रज्ञाः / अजरामरपथ[बहुक्षुण्णाः साधवः शरणं सुकृतपूर्णाः / / 38 / / हिंसादि - हिंसा आदिशब्दात् अलीकभाषण-परस्वापहार-स्त्रीसेवा-परिग्रहसङ्ग्रहः / हिंसादिदोषैः शून्यास्तविरहिता इत्यर्थः / तथा कृतं विहितं कारुण्यं दुःखप्रहाणेच्छादिरुप आर्द्रभावः सर्वसत्वे यस्ते कृतकारुण्याः कृपाकवचितचेतस इत्यर्थः / तथा जीवाजीवादिपदार्थानां शासने यथा प्रणीतत्वेन रोचनं मननं श्रद्धा रुक् सम्यक्त्वं प्रज्ञानं प्रज्ञा बुद्धिः स्वयं भवतीति स्वयम्भूः रुक् प्रज्ञा बुद्धि येषां ते स्वयम्भूरुक्प्रज्ञा, यदि तत् स्वयम्भूरुचा सम्यक्त्वेन पूर्णा स्वयंभूरुक्पूर्णा दूरीकृतमिथ्यात्वा इत्यर्थः / स्वयम्भूसमुद्रतुल्ये वा विस्तीर्णे रुक्प्रज्ञे येषां ते तथा, अथवा कस्याऽप्यनिश्रितत्वात् "वामे हस्ते दो दुञ्चिया" इत्यादिना येन स्वयम्भरा आत्मनिर्वाहका उपपन्ना व्यवस्थिता स्वयम्भरोत्पन्नाः / तथा न विद्यते जरामरौ वृद्धत्व-निधने यत्र तदजरामरं निर्वाणम्, तत्रोपदेष्टव्ये वर्णयितव्ये च बहु प्रभूतं यथाभवत्येवं क्षुण्णाः निपुणा मोक्षस्वरूपज्ञातार इत्यर्थः, यदा तु ‘पह' इति पाठस्तदा अजरामर-पथदेशकत्वात् प्रवचनशास्त्राण्यपि अजरामरपथस्तत्र निपुणाः सम्यक् तस्य वेदिन इत्यर्थः, ते साधव शरणं भवन्तु / पुनः किंविशिष्टाः ? सुष्वतिशयेन कृतं पुण्यं चारित्रप्राप्तिलक्षणमेष्यद्भवयोग्यम्, स्वर्गादिलाभलक्षणं वा यैस्ते सुकृताः, तैर्तपःप्रभृतिभिर्वा पूर्णा ताः, सञ्चितप्रभूततपस इत्यर्थः, इति गाथार्थः / / 38 / / 1., मिल्हिता-डर, ड३, 2. गृहिण्याः-डर, ड३, 3. समभावव्य-डर, ड३, 4-5-6. विधूतानि, विधूतः, विधूता-डर, ड३, 7. शोका . वा डर, ड३, 8. दुःखप्रहाणेच्छादयया आर्द्र-डर, ड३, 9. सत्वेषु-डर, ड३, 10. प्रज्ञा सम्यक्त्व-डर