SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ चतुःशरणप्रकीर्णकम् : श्लोक-३७ भवान्निष्कामो निर्विषयो, मोक्षसुखे कामो अभिलाषो येषां ते तथा मोक्षाभिलाषिण इत्यर्थः / तथा इङ्गिताकारसम्पन्नत्वात् सत्पुरुषाणामाचार्योपाध्यायादीनां वन्दारुणां दमदन्तेनेव युधिष्ठिरादीनामिव मनांसि आनन्दयन्ति अभिरामयन्ति इति सत्पुरुषमनोभिरामाः, कथं तन्मनप्रीतिरित्युक्तैर्दर्शयति - "काले सिक्खइ नाणं जिणमणियं परमभत्तिराएणं / दंसणपभावगाणि य सिक्खइ सत्थाई कालम्मि" / / "काले य भत्तपाणं गवेसए सयं च दोसपरिसुद्धं / आयरिया ईणट्ठा पवयणमायासु उवउत्तो" / / ... "एवं समायरंतो काले कालं विसुद्धपरिणामो / . असवत्तजोगकारी सलाहणिज्जो य भुवणम्मि" / / "सयलसुरासुरपणमियजिणगणहरमणियकिरियविहिकुसलो / . आराहिऊण सम्मत्तनाणचरणाई परमाई" / / [ "सत्तऽट्ठभवग्गहणंऽन्मंतर कालम्मि केवलं नाणं / उप्पाडिऊण गच्छइ विहूयमलो सासयं सुक्खं" / / , "तत्थ य जर-जम्मण-मरण-रोग-तन्हा-छुहा-भयविमुक्को. / साइ-अपज्जवसाणं कालमणंतं सुहं लहइ" / / [ ] तथा त्यक्ताऽन्यकृत्यत्वादात्मानं तासु प्रवचनोक्तक्रियासु, आ सामस्त्येन रामयन्ति क्रीडयन्ति आत्मानमित्याऽऽत्माऽऽरामा, यदि वा विशिष्टसंयमस्थाने नियोजनेनाऽऽत्मानं क्रीडास्थानं पुरनिवासिलोकस्योद्यानयात्रास्थानमिव येषां ते, तथा आचारं वा पञ्चप्रकारममन्ति गच्छन्ति आश्रयन्तीति आचारामाः, मन्यन्ते बुध्यन्ते लोकस्य कालत्रयावस्थामिति मुनयः साधवः ते शरणं भवन्तु / / 36 / / मिल्हियविसय-कसाया उज्झियघर-घरणिसंगसुहसाया / अकलियहरिस-विसाया साहू सरणं विहुयसोया।।३७।। मिल्हितविषयकषाया उज्झितगृहगृहिणीसङ्गसुखस्वादाः / अकलितहर्षविषादाः साधवः शरणं विधृतशोकाः।।३७।। .. 1. सयलदोस-डर, ड३, 2. नाणं चरणाइमाइ-डर, ड३, ल, 3. तप्पाडिऊण-डर, ड३, 4. गयपमाया-ल, डर, ड३ /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy