________________ विभाग-२ तैजसत्वप्रसक्तिः / यदप्यवाचि केषाञ्चिन्नक्तञ्चराणां नायना रश्मयः प्रत्यक्षेण दृश्यन्त इति / तदपि यदि परममांसचक्षुषामपेक्षया प्रोक्तम् / अस्मदादिभिस्तत्र रश्मीनामप्रतिपत्तेः / वृषदंशदृशोः प्रतीयन्त एवेति चेत् / न / तद्गोलकप्रदेशविशेष एव हि तथा प्रतिभासते नतु रश्मयः क्वचित् / यदि तु ते तत्र स्युः तदा प्रदीपादिवत्तेऽपि प्रसरन्तो दृश्येरन् / न च यमर्थं निशि निशाचरः पश्यति स तल्लोचनरुचि. निचयविच्छरितो दीपप्रभाप्राग्भारपरिरब्ध इव निकटोपटीकमानमनुष्येण दृश्यते / न च तेषामतितनुतरतया न नरान्प्रत्यभिव्यञ्जकत्वमिति वाच्यम् / रात्रिञ्चरानपि प्रति तदभिव्यञ्जनविरोधात् / उद्भूतभासुररूपत्वेन हि तेषामभिव्यञ्जकत्वं तच्चोभयत्र तुल्यम् / यद्वा सन्तु मार्जारनेत्रयोर्मरीचयो यत्र चाकचीक्यायमानतास्ति काचित् / यत्र तु गृहगोधिकादिचक्षुषि न किञ्चिन्निशि चकास्ति तत्रोद्भूतभासुररूपा रश्मयः सन्तीति कः स्वस्थः कथयेत् / दर्शनयोग्यं हि रूपमुद्भूतमुच्यते / अन्यथा मनुष्यनेत्रेषु तदनुद्भूतताभ्युपगमः किंनिमित्तकः स्यात् / अनुद्भूतताभ्युपगमे तु गृहगोधिकादिचक्षु-रश्मीनामालोकनिरपेक्षाणामेव प्रकाशकत्वमवलोकितमिति कथं प्रदीपादिप्रकाशसहितानां तदुपपत्तेरिति प्रागुक्तमुपपद्यते। यत्तु तेनैव नेत्ररश्मिष्वनुद्भूतरूपतामनिच्छतावाचि / अथालोकावयवसहितेभ्यस्तदवयवेभ्य उद्भूतरूपा एव नायना रश्मयः उत्पद्यन्ते / दृष्टौ हि तेजसामाशुतरविनाशोत्पादौ / रूपस्पर्शो चोद्भूतानुद्भूतत्वधर्मविकल्पोपेतावित्युद्भूतरूपत्वेनोत्पन्नानामपि रश्मीनामन्यस्मिन्समावेशाद्विवेकेनाग्रहणम् / यथाऽनेकप्रदीपरश्मीनामेकार्थसम्बद्धानामिति / तदपि नोपपद्यते / यतो यदि नामालोकमिलितमनुष्यलोचनेष्वेवम् / तथापि बहुलनिशीथे निरन्तरमञ्जनकुवलयदलश्यामलान्धकारकलापेऽतिशयसटितविकटकपाटसम्पुटपवरकक्रोडे विचरतां गृहगोधिकादिपिपीलिकादिपापीयःप्राणिनां साक्षादपि पश्यतां कथं रश्मीनामुपलम्भो न भवेत् / तत्रालोकमिलनस्यासम्भवात् / अथ यत्रालोकमिलनं तत्रैव तेषामुद्भूतानामुत्पत्तिः / तर्हि गृहगोधिकादिनेत्ररश्मीनामप्रकाशकत्वं स्यात् / अनुद्भूतभासुररूपत्वादिति प्रागुक्तान्न मुच्यसे। भाषमाणेन निःसारमित्येवं भूषण त्वया / सत्यं सत्यापयांचक्रे भूषणं भस्मभङ्गिभिः // 316 ततोऽनुद्भूतभासुररूपस्याभिव्यञ्जकत्वाघटनादसिद्धं ते रूपाभिव्यञ्जकत्वं चक्षुषि / अनुमानबाधितं च चक्षुसस्तैजसत्वम् / चक्षुषस्तैजसं न भवति तम:प्रकाशकत्वाद्यन्नैवं न तदेवं यथा प्रदीपस्तथा चेदं तस्मात्तथेति / न च तमसोऽसत्त्वेनासिद्धं तत्प्रकाशकत्वम् / अस्य प्रसाधयिष्यमाणत्वात् / तदेवं तैजसत्वस्यासिद्धत्वान्न चक्षुषि रश्मिवत्त्वसिद्धिनिबन्धनत्वम् / ___अथ क्वचन निरन्तरतिमिरनिकरकरम्बितापवरककोणे निषण्णस्य जरन्मार्जारस्येक्षणे प्रत्यक्षतो रश्मिवत्त्वप्रतीतेस्तन्निदर्शनेनान्यत्रापि नेत्रत्वहेतुना तत्सिद्धिरभिधीयते / तर्हि तरुणरमणीवीक्षणे