________________ 72 सन्दर्भग्रन्थाः अथ द्रव्यत्वे रूपादिषु नियमेन रूपस्याभिव्यञ्जकत्वदिति विशिष्य हेतुरुच्यते / तदाप्यञ्जनादिनानैकान्तः / अथ तैजसमेवाञ्जनं न पुनः पार्थिवम् / तत्रानुद्भूतस्य तेजोद्रव्यस्य भावादिति चेत् / तदयुक्तम् / प्रमाणभावात् / तैजसमञ्जनं रूपावभासने नयनस्य सहकारित्वात्प्रदीपवदिति प्रमाणमस्तीति चेत् / तदचतुरस्त्रम् / चेतसा व्यभिचारस्य दुप्परिहारत्वात् / अथ रूपस्यैवावभासने नयनस्यैव वा सहकारित्वादित्यवधारणगर्भसाधनोपदर्शनेन सकलानां विषयाणामिन्द्रियाणां वा साधारणस्यान्तःकरणस्य व्यवच्छेदेन व्यभिचारपरिहारः क्रियते / तदाऽऽद्यपक्षे हेतुरसिद्धः / द्रव्यादेरपि व्यञ्जनेऽञ्जनस्य नयनसहकारित्वात् / द्वितीये तु दृष्टान्तस्य साधनवैकल्यम् / रूपेऽपि स्वविषयतयावभासं जनयति प्रदीपस्य सहकारितया नयनं प्रत्येवं सहकारित्वासम्भवात् / अथ रूपादिषु मध्य इत्यादिहेतोरेवाञ्जनस्य तैजसत्वसिद्धिरुच्यते / तर्हि निदर्शनं वाच्यम् / प्रदीप एवेति चेत् / न / अस्य साधनशून्यत्वात् / अहो किमिदमुच्यते किं प्रदीपः प्रबोधितो न रूपमभिव्यनक्ति रसादीनपि चाभिव्यनक्ति / उच्यते। अभिव्यञ्जयत्येवायं स्वान्तनिमग्नानामगुरुमगनाभिकर्पूरशकलादीनां सुरभिपरिमलोद्गारं नागकर्णिकाविमर्पककरतलमिव नागकर्णिकादेः / एवं चक्षुषस्तैजसत्वसिद्ध्यनुमानेऽपि साधनवैकल्यं दृष्टान्तस्य वाच्यम् / अपि च यदि चक्षुषस्तैजसत्वं स्यात्तदा कथं न तत्र भास्वररूपोपलम्भः / तेजसि तस्य स्वाभाविकत्वात् / अनुद्भूतत्वादिति चेत्, नन्वेवं रूपाभिव्यञ्जकत्वमस्य दुरुपपादम् / तथा हि यदुद्भूतभासुररूपरहितं तन्न रूपाभिव्यञ्जकं यथा पाथ:संयुक्तस्तनूनपात्तथा चक्षुः कक्षीकृतं त्वयेति / ___ यत्तु भूषणेनाबभाषे / 'कथमनुद्भूतरूपाणामर्थप्रकाशकत्वमितिचेत् / न / प्रदीपादिप्रकाशसहितानां तदुपपत्तेः / अत एव येषामदृष्टसामर्थ्यादुद्भूतल्या नायना रश्मय उत्पन्नास्तेषां बाह्यप्रकाशनिरपेक्षा एवार्थं प्रकाशयन्ति यथा नक्तञ्चराणाम् / तथा च केषांचिन्नक्तञ्चराणां नायना रश्मयः प्रत्यक्षेणैव दृश्यन्ते' इति / तदपि न कमनीयम् / कुम्भादेरप्यनुद्भूतभासुररूपपरिकल्पनया प्रदीपादिसहकृतस्य प्रकाशकत्वोपपत्तेः / तस्यातैजसत्वेन भासुररूपमेव नास्तीति कुतस्तत्र तस्यामुद्भूतत्वकल्पनोपपत्तिमतीति चेत् / ननु चक्षुषोऽपि कुतस्तैजसत्वसिद्धिः / रूपादिषु नियमेनेत्यादिहेतोरेवेति चेत् / तत एवान्यस्यापि सास्तु / अत्रायं हेतुरसिद्ध इति चेत् / लोचनेऽपि कथं सिद्धः / प्रदीपादिसहकृतस्य प्रकाशकत्वोपलब्धेरिति चेत् / तदन्यत्रापि न नाम नास्ति। अथ वृषदंशादिचक्षुरालोकासहकृतमपि प्रकाशकमुपलब्धं नत्वेवं कुम्भादिरिति चेत् / तत्किमयमाशयस्ते यदालोकसहकृतमेव प्रकाशकं तन्न तैजसमिति / तहि नरनारीनयनानां तादृशम