________________ विभाग-२ प्राप्तिः सिद्ध्यति / भावचक्षुः खल्वात्मनो बुद्धिलक्षणो गुणः प्राप्तिरपि पदार्थेन संयोगो गुणः / न च गुणे गुणान्तरमस्ति / निर्गुणत्वात् तद्गुणानाम् / द्रव्यचक्षुरपि गोलकरूपमन्यद्वा किञ्चिद्भवेत् / आद्यपक्षे प्रत्यक्षबाधः प्रतिज्ञायाः / प्रत्यक्षेण परिच्छित्तिकाले पदार्थासम्बद्धस्यैव गोलकस्योपलब्धेः / अन्यथा तदानीं पुंसः पक्ष्मप्रदेशे प्रकटकोटरोपलम्भः स्यात् / पदार्थस्य वा गोलकदेशे प्रतीतिः स्यात् / अथान्यत्किञ्चिच्चक्षुरिन्द्रियं धर्मितया ह्यधिष्ठाननिष्ठमेवं पटिष्ठमर्थपरिच्छेदे स्वीक्रियते / तदा स एव तद्देशे पदार्थस्योपलम्भः स्यात् / अथाधिष्ठानदेशात्प्रसद्रश्मिरूपावयवसमवेतं चक्षुः प्रसृत्यार्थेन सम्बद्ध्यते सम्बद्धं चोपलम्भयति / तदसुलभम् / चक्षुःप्रसृत्य नार्थेन सम्बद्ध्य त्त्वगादिवदित्यनुमानबाधापातात् चक्षुषो रश्मिवत्त्वासिद्धेः / अथ रश्मिवच्चक्षुस्तैजसत्वात् यदित्थं तदित्थं यथा ज्योतिस्तथाचेदं तस्मात्तथेत्यतस्तत्सिद्धिः / न चासिद्धं तैजसत्वम् / चक्षुस्तैजसं रूपादिषु मध्ये नियमेन रूपस्याभिव्यञ्जकत्वाद्यदेवं तदेवं यथा दीपस्तथा चेदं तस्मात्तथेत्यतस्तत्सिद्धेः / रूपस्याभिव्यञ्जकत्वादित्युक्ते मनसा व्यभिचारो भवेत् / तद्धि रूपव्यञ्जकं न च तैजसमिति तद्व्यवच्छेदार्थं नियमेनेति पदम् / न हि मनो रूपस्यैव व्यञ्जकं गन्धादीनामपि व्यञ्जकत्वात् / एवमपि रूपत्वद्रव्यादिव्यञ्जकत्वोपलब्धेरसिद्धत्वं स्यादिति रूपादिषु मध्ये इत्युक्तमिति चेत् / तदसुन्दरम् / इन्दुदीधितिप्रतिबन्धे तदिति प्रतिबन्धे रूपा-दिष्वित्यादिहेतोरनैकान्तिकत्वात् / न च शुचिरोचिःशोचिःसञ्चयस्यापि तैजसत्वान्न व्यभिचार इति वाच्यम् / उष्णस्पर्शशून्यत्वेन तैजसत्वासम्भवात् / तथा तेजःप्रकरणे वैशेषिकभाष्यम् / 'उष्ण एव स्पर्शः' इति / यत्पुनस्दयनोऽत्राह 'एवकारश्चन्द्रचामीकरचक्षुरादिष्वनुपलम्भहेतुकां विप्रतिपत्तिमपनेतुं, तेषां तैजसत्वेनोष्णत्वानुमानात्' इति / तदबन्धुरम् / शशधरेऽद्यापि तैजसत्वासिद्धेः / अथ प्रस्तुतहेतुत एवात्रापि तत्सिद्धिरभिधीयते / तदशस्यम् / अस्यानुमानबाधितपक्षानन्तरोपन्यस्तत्वेन कालात्ययापदिष्टत्वात् / तथाहि न चन्द्रस्तैजसः शैत्यहेतुत्वात् पाथोवदिति / सति च सुधांशोरतैजसत्वे सुतरां तन्मरीचीनामतैजसत्वम् / / यस्त्वयं कस्यचिदागमः / 'जलकल्लोलश्चन्द्रस्तत्र प्रतिहतास्तपनांशवः . प्रद्योतन्ते शिशिराश्च भवन्ति तत एव शैत्यहेतव' इति / सोऽपि स्वैरालापः / कस्य पयोराशेरयं कल्लोलः / कथं तं विहाय विहायस्तलमाललम्बे / कुतः परिमण्डल एव कथं न स्पन्दते / काठिन्यमाप्तो वा। तत्प्रतिफलितास्तपनांशाः शिशिराः सुखालोकाः सकलदिक्प्रासारिणश्च भवन्ति / कथं च न दिवापि तत्प्रतिफलनमित्यादि विचारचतुःपथासञ्चरिष्णुत्वात् / तथाविधस्यापि स्वीकारे परस्परस्यापि स्वेष्टासिद्ध्या स्वमतव्याघातः / तेजोरूपनयनसन्निकर्षेणापि व्यभिचारी प्रकृतहेतुः / अयं हि रूपादिषु रूपस्यैवाभिव्यञ्जकोऽस्ति न च तैजसः /