________________ सन्दर्भग्रन्थाः परिच्छिनत्ति, अतो निश्चीयतेऽनागतं विषयमवबुध्यते तत्, न वा गत्वा विषयदेशमित्यतो न व्यञ्जनावग्रहस्तस्य। प्रवचन सारोद्धारा वृत्ति अयं च नयनमनोवर्जेन्द्रियचतुष्टयभेदाच्चतुर्धा, नयनमनसोरप्राप्यकारित्वेन विषयसम्बन्धाभावाद्, अस्य चेन्द्रियविषययोः सम्बन्धग्राहकत्वादिति भावः, / // स्याद्वादरत्नाकरसहितः प्रमाणनयतत्त्वालोकालङ्कारः // तस्मानिर्दोषत्वात्स्पष्टत्वं प्रत्यक्षलक्षणं प्रेक्षावद्भिरङ्गीकर्त्तव्यं नेन्द्रियसन्निकर्षोत्पन्नमित्यादि नैयायिककल्पितम् / चाक्षुषसंवेदने तस्यासत्त्वेनाव्यापकत्वात् / चक्षुषोऽर्थेन सन्निकर्षाभावात् / इदमस्मदुदीरितं निशम्य प्रोद्यत्कोपविपाटलीकृताक्षम् / निगदति नितराममृष्यमाणं तदिदं योगकदम्बकं मिलित्वा // 313 // आः किमिदमुच्यते चक्षुषोऽर्थेन सन्निकर्षाभावादिति / अस्ति हि तत्सद्भावग्राहकमनुमानम्। तथा च व्योमशिवः "चक्षुः प्राप्तार्थपरिच्छेदकं व्यवहिताप्रकाशकत्वात् यद्यद्व्यवहिताप्रकाशकं तन्नाप्राप्तार्थपरिच्छेदकं यथा प्रदीपः व्यवहिताप्रकाशकञ्च चक्षुः तस्मात्प्राप्तार्थपरिच्छेदकम्" इति / किरणावलीकारोऽपि 'येषां त्वप्राप्यकारि चक्षुस्तेषामप्राप्तत्वाविशेषा- दव्यवहितमिव व्यवहितमपि किन्न गृह्णीयात्' इति वदति तदेव समर्थयते श्रीधरोऽप्येतत् ‘बाह्येन्द्रियत्वात्वगिन्द्रियवत्' इति द्वितीयं च प्राह / कश्चित्पुनस्वाच / चक्षुः प्राप्यकारि भौतिकत्वाद्यदेवं तदेवं यथा परशुस्तथा चेदं ततस्तथा / अथ चक्षुषः प्राप्यकारित्वे कथं भूधरचन्द्रमसोर्युगपद्ग्रहणम् / तदसत् / युगपत्तद्ग्रहणस्याप्रसिद्धः / प्रथमतो हि चक्षुः सन्निहितं महीधरं प्राप्य प्रकाशयति / पश्चाद्दूरचारिणं हरिणलक्ष्माणम् / युगपत्प्रतिपत्त्यभिमानस्तु शतपत्रपत्रशतव्यतिभेदवदाशूत्पत्तिनिमित्तकः / एवं च लोचनस्य प्रासिध्यत् प्राप्यकारिता श्रुतिवत् / तन्नयनसन्निकर्षाभाववचः सङ्गतिं कथमुपैतु // 314 // एषामहो जगदपूर्वपदार्थसिद्धौ कोऽप्येष दुर्द्धरतरः खलु पक्षपातः / किन्त्वभ्यधायि स न कश्चन युक्तिलेशः प्राप्नोति यः किमपि हन्त तदानुरूप्यम् // 315 // तथा हि यत्पौरस्त्यमनुमानम् / तत्र भावचक्षुर्द्रव्यचक्षुर्वा धर्मितया वर्येत / न तावद्भावचक्षुः / त्वया तस्याकक्षीकारेण धर्मिणोऽप्रसिद्धौ साधनस्याश्रयासिद्धताप्रसक्तेः / कक्षीकारेऽपि नास्य पदार्थेन