________________ विभाग-२ "उस्सेहंगुलमेगं हवइ पमाणंगुलं सहस्सगुणं / तं चेव दुगुणियं खलु वीरस्सायंगुलं भणियं // 3 // आयंगुलेण वत्थु उस्सेहपमाणओ मिणसु देहं / णगपुढविविमाणाइं मिणसु पमाणंगुलेणं तु // 4 // " एवं स्थिते 'नयनस्य' चक्षुरिन्द्रियस्य 'विषयपरिमाण' प्रसर्पणपरिमाणं कियति देशे व्यवस्थितं रूपमालम्बते ? इति गाथार्थः // 340 // तत्त्वार्थसूत्रीय हरिभद्रसूरिकृतवृत्तिः // न चक्षुरनिन्द्रियाभ्यां // 19 // चक्षुषा उपकरणेन्द्रियाख्येन सह नोइन्द्रियेण च मनओघज्ञानरूपेण व्यञ्जनावग्रहो न भवंति, एतदुक्तं भवति ते रूपाकारपरिणताः पुद्गलाश्चिन्त्यमानाच वस्तुविशेषाः न ताभ्यां संश्लिष्य विज्ञानं जनयन्ति, अपि तु योग्यदेशावस्थिताश्चक्षुषा गृह्यन्ते, प्रणिधानसचिवाश्च मनसा चिन्त्यन्ते, संश्लेषाभ्युपगमे तु अक्ष्यञ्जनादेः ग्रहणं, विषयकृतौ वाऽनुग्रहोपघातौ दुर्निवारौ, नायनरश्मिविधानं मनोनिर्गमनं चान्यत्र निराकृतमिति नेहाभिधीयते, अतश्चक्षुरनिन्द्रियाभ्यां व्यञ्जनावग्रहो न भवति / // तत्त्वार्थस्वोपज्ञभाष्य-सिद्धसेनीयार्टीका // अथ किं स्पर्शनादीनामिन्द्रियाणां सर्वेषां व्यञ्जनावग्रह: समस्ति, उत कस्यचिन्नेति ? / उच्यतेकस्यचिन्न सम्भवतीत्यपि / एतद् दर्शयति सूत्रम्-न चक्षुरनिन्द्रियाभ्याम् // 1-19 // भाष्य-चक्षुषा नोइन्द्रियेण च व्यञ्जनावग्रहो न भवति, चतुर्भिरिन्द्रियैः शेषैर्भवति / टीका-करणे सहार्थे चैषा तृतीया, चक्षुषा उपकरणेन्द्रियाख्येन सह नोइन्द्रियेण वा मनओघज्ञानरूपेण सह ते रूपाकारपरिणताः पुद्गलाश्चिन्त्यमानाः वस्तुविशेषाः संश्लेषं न यान्ति, अतो व्यञ्जनम् चक्षुरुपकरणेन्द्रियनोइन्द्रिययो रूपाद्याकारपरिणतिपुद्गलानां च यत् संश्लेषरूपं तव्यञ्जनमेवंविधं नास्ति, तदभावाच्च तदवग्रहोऽपि नास्ति, एतदाहव्यञ्जनस्यावग्रहो न भवति / एतदुक्तं भवति ये ते दृश्यमानाश्चिन्त्यमानाश्च वस्तुविशेषाः न ते चक्षुरिन्द्रियेणोपकरणरूपेण नोइन्द्रियेण च सह संश्लेषमिता: परिच्छिद्यन्ते, यतो योग्यदेशावस्थितं वस्तु चक्षुः शरीरस्थमेव सत् परिच्छिन्नत्ति, न गत्वा विषयपरिच्छेदे व्याप्रियते, न वा विषयमागतं धान्यमसूरकाकृतिके इन्द्रियदेशेऽवगच्छति, अतश्च लोचनमप्राप्तविषयग्राहि, न खलु ग्राह्येण तस्यानुग्रहोपघातानुभवो दृष्टः, स्वान्तस्येव, नापि धान्यमसूराकृतीन्द्रियदेशवतिविषयपरिच्छेदि विलोचनं, यदि स्यात् ततस्तद्गतमञ्जनादि परिच्छिन्द्यात्, न च