________________ 74 सन्दर्भग्रन्थाः कटाक्षलक्षप्रक्षेपाः प्रेक्ष्यन्ते तत एव करभादिलोचनेऽपि तत्सिद्धिः किं न स्यात् / तस्मान्न साधर्म्यमात्रेण हेतोर्गमकत्वमपि त्वन्यथानुपपन्नत्वेन / न चात्र तदस्ति / तद्ग्राहकप्रमाणस्यासम्भवात् / न च मार्जारनेत्रेऽपि रश्मिवत्त्वं नः सिद्धमिति प्रागुक्तम् / तदित्थं दृशो रश्मिवत्त्वाप्रसिद्धरसम्बद्धमुक्तमधिष्ठानदेशात्प्रसद्रश्मिरूपावयवसमवेतमित्यादि / अनुमानबाधितश्च चक्षुषः प्राप्तार्थपरिच्छेदनपक्षः / तथा हि चक्षुः प्राप्तार्थपरिच्छेदि न भवत्यत्यासन्नार्थाप्रकाशकत्वाद्यत्पुन वं न तदेवं यथा घ्राणं तथा चैतत्तस्मात्तथेति / न चात्र हेतुरसिद्धः / गोलकसंसर्गिणोऽञ्जनस्य लोचनेनाप्रकाशनात् / अथात्यासन्नोऽर्थो योग्योऽयोग्यः सामान्यतो वा विवक्षितः / आद्यपक्षे हेतोरसिद्धिः / योग्यस्यात्यासन्नस्य सर्वस्य तेन प्रकाशनात् अञ्जनस्य तु न योग्यता / प्रसरतो हि नयनरश्मिसमूहस्य यत्तत्प्रगुणदेशेऽवस्थितं तदेव चक्षुर्ग्रहणे योग्यम् / न चाञ्जनं तथा / तस्य पक्ष्मपुटतटोट्टङ्कितस्य गोलकान्तनिःसरतां मूले मृणालसूत्रसूक्ष्मेण रश्मिसमूहेन सार्थं प्रगुणत्वायोगात् / द्वितीये तु पक्षे व्यभिचारः / स्पर्शनादीनामाकाशपरमाणुप्रमुखात्यासन्नायोग्यपदार्थाप्रकाशकत्वेऽपि प्राप्तार्थपरिच्छेदकत्वात् / तृतीयेऽप्ययमेव कलङ्कः / तदखिलं प्रलापमात्रम् / यतोयदि नाम सूक्ष्मरश्मि दंष्ट्रादिस्वकीयालीककल्पनयाञ्जनमयोग्यं पर्यकल्पि तथापि सकलगोलकव्यापितिमिरकामलादिषु क: प्रतीकारः / ते हि तद्व्यापित्वादेव तद्रश्मीनां प्रगुणदेशस्थिताः / यथा स्फुटस्फटिककाचादिकूपिकाक्रोडोपगतप्रदीपरश्मीनां स्फाटिकादिकूपिका इति / न च स्पर्शनेन प्राप्तार्थप्रकाशकेनाप्यत्यासन्नस्याभ्यन्तरशरीरावयवस्पर्शस्याप्रकाशनांदत्यासन्नार्थाप्रकाशकत्वस्यानेकान्तः / आभ्यन्तरशरीरावयवानां स्पर्शनेन्द्रियकारणत्वेन तत्सम्बन्धिस्पर्शस्य तदविषयत्वात् / अकारणस्य तु जलादे: पीयमानस्य शशिरस्पर्शोऽभ्यन्तरमनुभूयत एव / व्यवहिताप्रकाशकत्वादिति हेतुरप्यसिद्धः / कुलिशकाचाभ्रपटलस्वच्छसलिलस्फटिकोपलान्तरितानामपि पदार्थानामुपलम्भात् / अथ चतूरश्मयः। कुलिशादिकं विभिद्य तदन्तरितपदार्थदेशमुपसर्पन्ति ततस्तदुपलम्भः तर्हि तूलपटलान्तरितपदार्थोपलम्भः सुतरां भवेत्तस्य सुभेदत्वात् / ये हि कमपि कर्कशमतिशयनिशितशस्त्राभेद्यं दम्भोलिस्फाटिकादिकमपि भिन्दन्ति न ते तूलपटलीं भेदयितुमलमिति कः सकर्णः कर्णेऽपि कुर्वीत / ... यत्पुनरुदयन उदचीचरत् / “स्फटिकाद्यन्तरितोपलब्धिः प्रसादस्वभावतया स्फटिकादीनां तेजोगतेरप्रतिबन्धकतया प्रदीपप्रभावद्भवेदुपपन्ना" इति / तदपि नोपपन्नम् / न हि प्रसन्नतानिमित्तको मूर्त्तद्रव्यस्य मूर्त्तद्रव्यान्तरेण गतेप्रतिबन्धः क्वापि प्रैक्षि / किन्तु प्रशिथिलावयवारभ्यत्वनिमित्तकः / यथा तूलादिभिरेव जलादीनां पुनः स्फटिकादिभिः / तद्वदिहापि तूलादय एव नयनरश्मिगतेरप्रतिबन्धकाः / न स्फटिकादयः / स्फटिकान्तर्गतप्रदीपरश्मयस्तु न तं भित्वा प्रसरन्ति / किन्तु . तत्सम्पर्कमासाद्य स्फटिकपरमाणुपुञ्ज एव तथा परिणतः सर्वतः प्रसरति / अत एव