________________ विभाग-२ पीतरक्तादिकाचकूपिकातो रश्मयोऽपि तच्छायाः प्रसरन्तो दृश्यन्ते / अथ यथा पारदस्यायस्पात्रभेदे सामर्थ्यं न पुनरलाबुपात्रभेदे तथा लोचनरोचिषामपि स्फटिकादेर्भेदे शक्तिर्भविष्यति न तूलपटलीभेद इति चेत् / तदप्रतीतिकम् सोऽयं स्फटिकादिरिति निर्णयाद्विनाशव्यवहारस्य तत्र कस्यचिदभावाच्च / अथ पूर्वपूर्वकाचादिव्यूहवृत्तावुत्तरोत्तरतद्रूपव्यूहान्तरस्योपपत्तेः प्रदीपज्वालावनिरन्तरताभ्रान्तिरित्युच्यते / हन्तैवम् / कलशकुलिशप्राकाराद्यं त्रिविष्टपकन्दराकुहरकलितं विश्वं वस्तु प्रतिक्षणभङ्गरम् / ज्वलनकलिकावत्किन्त्वस्मिन्निरन्तरताभ्रमः प्रभवति वदन्नित्थं शाक्यः कथं प्रतिहन्यते // 317 // अथात्मादिपदार्थानां क्षणिकत्वमाचक्षाणं भिक्षु प्रतिक्षेप्स्यति प्रत्यभिज्ञैवेति चेत् / स्फटिकादावप्यस्त्येवासौ / सान्यत्र दृढेति चेत् किंकृतं तत्रास्य दाढ्यम् / बाधाभावकृतमिति चेत् / प्रकृतेऽपि तत्समानम् / न हि स्फटिकादौ प्रत्यभिज्ञानस्यैकत्वपरामशिनः किञ्चद्बाधकमस्त्यात्मादिवत् / स्फाटिकान्तरितार्थोपलम्भेन तद्भेदसिद्धिरेकत्वग्राहकप्रत्यभिज्ञानस्य बाधिकेति चेत् / नैवम् / इतरेतराश्रयापत्तेः भेदसिद्धौ हि स्फटिकादेस्तदन्तरितार्थोपलम्भः सिद्ध्यति तत्सिद्धौ च भेदसिद्धिरिति / यदि च तथा स्फाटिकादेराशूत्पादविनाशौ स्वीक्रियेते तदा चैवं दर्शनान्तरितम्रदर्शनमपि स्यात् / न च तत्र तदा कस्यचित् तदनुभूयते / तद्विनाशस्य तद्विनाशस्य पूर्वोत्तरोत्पादाभ्यामाशुभाविभ्यां तिरोहितत्वान्न तत्रादर्शनं स्यादिति चेत् / नन्वेवं तदुत्पादस्य पूर्वोत्तरविनाशाभ्यामाशुभाविभ्यामेव तिरोधानाद्दर्शनमपि माभूत् / तदुत्पादयोः स्वमध्यगतविनाशतिरोधाने सामर्थ्य भावस्वभावत्वेन बलीयस्त्वात् / नतु निस्स्वभावयोस्तन्नाशयोः स्वमध्यगतोत्पादतिरोधाने / अभावस्वभावत्वेन दुर्बलत्वादिति चेत् नैतद्भाव्यम् / भावाभावस्वभावयोः समानबलत्वात् / तयोरन्यतरबलीयस्त्वे युगपद्भावाभावात्मकवस्तुप्रतितिविरोधात् / न हि वस्तुनो भाव एव कदाचित्प्रतीयते / स्वरूपादिचतुष्टयेनेव पररूपादिचतुष्टयेनापि भावप्रतीतिप्रसक्तेः / न चानाद्यनन्तं सर्वात्मकं वस्तु प्रतिभाति / यतस्तथाभ्युपगमः श्रेयान् / नाप्यभाव एव वस्तुनोऽनुभूयते। पररूपादिचतुष्टयेनेव स्वरूपादि. चतुष्टयेनाप्यभावप्रतिपत्तिप्रसङ्गात् / न च सर्वथाप्यसत्प्रतिभाति / यतस्तदभ्युपगमोऽपि कस्यचित्प्रतितिष्ठेत / प्ररूपयिष्यते च भावाभावप्रतिभासनम् / ततः सर्वथोत्पादे विनाशे च पुनः पुनः स्फटिकादौ दर्शनसान्तरस्यादर्शनस्य प्रसञ्जनं दुर्निवारमिति स्थितम् / न चैवं प्रदीपे कथं नैरन्तर्यभ्रम इति वाच्यम् / सर्वथोत्पादविनाशयोस्तत्राघटमानत्वादिति वक्ष्यते / सन्दिग्धव्यतिरेकि च व्यवहिताप्रकाशकत्वम् / अप्राप्तार्थपरिच्छेदित्वेऽपि व्यवहिता-प्रकाशकत्वस्याविरोधात् /