________________ सन्दर्भग्रन्थाः ___ यत्तूक्तमप्राप्तत्वाविशेषादव्यवहितवत्कुड्यादिव्यवहितमपि किं न गृह्णीयादिति / तदप्यसङ्गतम् / योग्यतावशेनैव तेन प्रकाशनात् / अभ्युपगतं च भवताप्येतत् / कथमन्यथा स्फाटिकान्तरितस्येव समलजलान्तरितस्यापि भावस्योपलम्भो न भवेत् / अथ पाथो विध्वसितत्वाल्लोचनतेजो न तद्भित्त्वार्थेन सम्बध्यते इति कथं तदुपलम्भः / तर्हि स्वच्छसलिलान्तरितस्यापि तस्यानुपलम्भः स्यात् / कथं वा कुड्यादेर्न रश्मिभिर्भेदः / नहि तत्तेजो विरोधि / स्फटिकादावपि तद्विरोधित्वापत्तेः / प्रसन्नतानिमित्तस्तु तद्भेदः पूर्वमेव व्यपास्तः / किं च घ्राणं यथा कैरवस्यैवं परमाणोरपि गन्धं कुतो न प्रकाशयेत् / अथ प्रकाशयत्येव योगिनो घ्राणं परमाणुगन्धमपि / नास्मदादेः / तादृगदृष्टविशेषस्याभावात् / महत्त्वाद्युपेतद्रव्यगन्धादि तु प्रकाशयति / तादृगदृष्टविशेषस्य सद्भावात् / इत्यदृष्टवैचित्र्यात्तद्विज्ञानभावाभाववैचित्र्यम् / तदितरत्रापि तुल्यम् / स्याद्वादिनामपि चक्षुरप्राप्यकारि केषाञ्चिदतिशयज्ञानभृतामस्मदाद्यगोचरविप्रकृष्टस्वविषयस्य परिच्छेदकम् / तादृशतदावरणक्षयोपशमविशेषसद्भावात् अस्मदादीनां तु यथाप्रतीति पदार्थप्रकाशकत्वं स्वानुरूपतदावरणक्षयोपशमविशेषादित्युमाभ्यामभ्युपगन्तव्या योग्यता / अधिकश्चास्माकमनुभवः साक्षी / अनुमानं चानन्तरं निरूपितम्। . यत्तु कन्दलीकारो व्याकरोति / "योग्यताभावाद्व्यवहिताग्रहणमिति चेत् / इन्द्रियस्य तावद्योग्यता विषयग्रहण सामर्थ्यमस्त्येव तदानीमव्यवहितग्रहणात् विषयस्यापि योग्यता महत्त्वानेकद्रव्यवत्त्वरूपविशेषाद्यात्मिका व्यवधानेऽप्यनिवृत्तैव / आर्जवावस्थानमपि तदावस्थमिति" / तदप्येतेन निरस्तम् / प्रमातुस्तादृशक्षयोपशमरूपतद्ग्रहणयोग्यताया अभावात् / कथमन्यथा निशीथिनीनाथरूपस्येव तद्गतेरुपलम्भो न भवेत् / अथ भास्वरत्वाद्दूरादपिरूपं तस्योपलभ्यते नतु गतिस्तद्विपरीतत्वात् तर्हि तदुत्सङ्गसङ्गतः कुरङ्गकलङ्कः सैंहिकेयनिकेतनैकदेशश्चनोपलभ्येत / तद्रूपाभावेन सितत्वेन तदुपलम्भे कतरो गतावपराधः यन्नासौ दृश्यते / तदेवं न व्यवहिताप्रकाशकत्वानुमानं साधीयः / नापि बाह्येन्द्रियत्वानुमानम् / तत्रापि प्रतिपादितदोषाणां प्रायः प्रसर्पणात् / किं च किमिदं बाह्येन्द्रियत्वं चक्षुषः / किं बहिरर्थग्रहणाभिमुख्यं बहिर्देशावस्थायित्वं, बहिष्कारणप्रभवत्वं वा स्यात् / तत्र प्राचीनं चेतसा व्यभिचारि / तस्याप्राप्तसुपर्बपद्धतस्वर्गादिपरिच्छेदकत्वेऽपि बहिरर्थग्रहणाभिमुख्यतया बाह्येन्द्रियत्वात् / द्वितीयपक्षेऽप्यर्थदेशः शरीराबहिर्वा बहिर्देशो विवक्षितः / व्यवस्थायित्वमपि पौरस्त्यपक्षेऽर्थदेशाश्रितत्वमर्थाभिमुख्येन प्रवृत्तिर्वा स्यात् / आद्यपक्षे उभयासिद्धिः / चक्षुषो गोलकान्तद्देशसमाश्रितत्वेन वादिप्रतिवादिभ्यामभ्युपगतत्वात् / दृष्टान्तश्च साधनविकलः / त्वगिन्द्रियस्यार्थदेशानाश्रित्वात् / द्वितीयपक्षेऽपि प्रवृत्तिराभिमुख्येन प्रसर्पणरूपो व्यापारः प्रतीत्युत्पादकत्वं वा / प्रथमे प्रतिवाद्यसिद्धिः / न खलु